Enter your Email Address to subscribe to our newsletters

-झारखंड विधानसभाराजस्वसत्रम् : अबुआ आवास योजनां प्रति मंत्री अददात्सूचना
रांची, 11 मार्चमासः (हि.स. )।झारखण्डविधानसभायाः बजटसत्रस्य एकादशे दिने बुधवासरे भारतीयजनता-दलस्य विधायकः नवीन जायसवाल हजारीबाग-नगरे रामनवमी-उत्सवे डीजे-वादनस्य निषेधस्य विषयम् उत्थापितवान्। अस्मिन् प्रसङ्गे तेन शासनस्य विषये प्रश्नाः अपि कृताः।
नवीनजायसवालस्य समर्थनार्थं भाजपादलस्य अनेके विधायकाः स्वस्व-आसनात् उत्थाय विरोधं प्रकटितवन्तः। तस्मिन् समये काङ्ग्रेस्-दलस्य विधायकः राजेश कच्छप कोलाहलस्य मध्ये सदनस्य वेल् भागं प्राप्तवान्। भाजपाविधायकानां हस्तेषु तख्तिकाः आसन्, यासु लिखितम् आसीत्— “कोयला, बालुका तथा भूमेः लूट् न चलिष्यति।” कोलाहलस्य मध्ये मार्शल-अधिकारीणः विधायकानां हस्तेभ्यः ताः तख्तिकाः अपहृतवन्तः।
अस्मिन् समये विधायकः प्रदीप यादव स्वस्य वक्तव्यं सम्पूर्णरूपेण न श्रुतम् इति कारणेन असन्तोषं प्रकटितवान्। ततः पुनः भाजपाविधायकाः वेल्-प्रदेशं गत्वा दीर्घकालं यावत् घोषणाः कुर्वन्तः आसन्। अनन्तरं संसदीयकार्यमन्त्रिणः हस्तक्षेपात् विधायकाः पुनः स्वस्व-आसनेषु प्रत्यागतवन्तः।
सदने स्थितिः सामान्याभूते सति विधानसभाध्यक्षः डॉ. रवीन्द्रनाथ महतो अवदत् यत् अद्य प्रथमवारं विनाविघ्नं सदनस्य कार्यवाही सम्पन्ना अस्ति। सः सर्वान् सदस्याः प्रति अपीलं कृतवान् यत् ते विधानसभायाः कार्यवाहीं न बाधयन्तु।
डीजे-वादनस्य विषयम् अधिकृत्य संसदीयकार्यमन्त्री राधाकृष्ण किशोर अवदत् यत् डीजे-वादनस्य विषयस्य कस्यापि धर्मेण सह किञ्चिदपि सम्बन्धः नास्ति। तेन उक्तं यत् रात्रौ दशवादनात् अनन्तरं कस्यापि परिस्थितौ डीजे-वादनं न कर्तव्यम्। तेन अपि उक्तं यत् देशे हिन्दवः न, अपि तु हिन्दुस्तानीयाः संकटे न सन्ति।
अस्यैव सत्रे विधायकः हेमलाल मुर्मू राज्यस्य महत्त्वाकाङ्क्षिणीं अबुआ आवास-योजनां विषये प्रश्नम् उत्थापितवान्। सः योजनान्तर्गतं लाभार्थिभ्यः गृहनिर्माणस्य व्यवस्था तथा शासनस्य सिद्धतां विषये जानकारीम् अयाचत।
अस्य प्रश्नस्य उत्तरं दत्त्वा मन्त्री दीपिका पाण्डेय सिंह अवदत् यत् राज्यशासनस्य प्रमुखप्राथमिकतासु दरिद्रजनानां कृते आवासप्रदानं अपि सम्मिलितम् अस्ति। तया उक्तं यत् बजटे आवासनिर्माणार्थं प्रायः ४४०० कोटिरूप्यकाणां विनियोगः कृतः अस्ति। अस्याः राशेः माध्यमेन षट्-लक्षाणि आवासानि सम्पन्नानि भविष्यन्ति तथा नूतनान्यपि आवासानि स्वीकृतानि भविष्यन्ति।
मन्त्रिणा अपि उक्तं यत् प्रधानमन्त्री-आवास-योजनायाः निधेः वृद्ध्यर्थं केन्द्रशासनेन सह अनेकवारं संवादः पत्राचारश्च कृतः, किन्तु केन्द्रात् कश्चन सकारात्मकः प्रतिसादः न प्राप्तः। तथापि झारखण्ड-राज्यशासनं अबुआ आवास-योजनाया माध्यमेन गृहरहितजनानां कृते आवासप्रदानाय निरन्तरं प्रयासं करोति।
सा अवदत् यत् राज्यशासनं स्वस्य पञ्चवर्षीयकार्यकाले येषां जनानां गृहम् आवश्यकं तेषां सर्वेषां कृते आवासप्रदानस्य लक्ष्यं धृत्वा कार्यं करोति। तया उक्तं यत् यथार्थलाभार्थिनां परिचयार्थं सर्वेक्षणं क्रियते। अद्यपर्यन्तं प्रायः डेढलक्षजनानां परीक्षणं सम्पन्नम् अस्ति, यथा केवलं वास्तविक-आवश्यकतायुक्ताः एव योजनायाः लाभं प्राप्नुयुः।
---------------
हिन्दुस्थान समाचार