मध्यप्रदेश: - जबलपुरे त्रिदिवसीयः कृषक–मेलापक: तथा श्री–अन्न–भोजन–महोत्सवः अद्य आरभ्यते
– पुलिस–लाइन–स्थिते हॉकी–क्रीडाङ्गणे आधुनिक–कृषि–यन्त्राणां प्रदर्शिनी भविष्यति जबलपुरनगरम्, ११ मार्चमासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे आचर्यमाणस्य कृषि–वर्षस्य अन्तर्गतं अद्य बुधवासरात् जबलपुरे भव्यः कृषक–मेलाप: तथा श्री–अन्न–भोजन–महोत्सवः आ
कृषि मेला एवं श्री अन्न फूड फेस्टिवल


– पुलिस–लाइन–स्थिते हॉकी–क्रीडाङ्गणे आधुनिक–कृषि–यन्त्राणां प्रदर्शिनी भविष्यति

जबलपुरनगरम्, ११ मार्चमासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे आचर्यमाणस्य कृषि–वर्षस्य अन्तर्गतं अद्य बुधवासरात् जबलपुरे भव्यः कृषक–मेलाप: तथा श्री–अन्न–भोजन–महोत्सवः आयोज्यते।

मोट–धान्यानि (मिलेट्स) प्रति जन–जागरूकतां वर्धयितुं, प्राकृतिक–तथा–जैविक–कृषेः प्रोत्साहनार्थं तथा आधुनिक–कृषि–प्रविधिभिः कृषकान् परिचितान् कर्तुं उद्देश्येन पुलिस–लाइन–स्थिते हॉकी–क्रीडाङ्गणे आयोजिते अस्मिन् कृषक–मेलापके तथा श्री–अन्न–भोजन–महोत्सवे कृषकाणां सामान्य–नागरिकाणां च कृते अनेके महत्त्वपूर्णाः कार्यक्रमाः आयोज्यन्ते। एतेषु मोट–धान्यानां पोषण–मूल्यस्य प्रचारार्थं विशेष–प्रदर्शिनी, आधुनिक–कृषि–यन्त्राणां प्रदर्शिनी तथा कृषक–संगोष्ठी अपि समाविष्टाः सन्ति।

कृषि–उप–सञ्चालकः डॉ.एस.के.निगमः अवदत् यत् कृषक–मेलापके तथा श्री–अन्न–भोजन–महोत्सवे विक्रयार्थं श्री–अन्न–उत्पादानि तथा शुद्ध–जैविक–उत्पादानि अपि उपलब्धानि भविष्यन्ति। अनेन सह प्रतिदिनं सायं ७ वादनात् रात्रौ १० वादनपर्यन्तं सांस्कृतिक–कार्यक्रमाः तथा ऑर्केस्ट्रा–कार्यक्रमः अपि आयोजयिष्यते। कृषि–उप–सञ्चालकेन १३ मार्चपर्यन्तं आयोज्यमाने अस्मिन् कृषक–मेलापके तथा श्री–अन्न–भोजन–महोत्सवे अधिकाधिक–संख्यया उपस्थाय कृषिसम्बद्धां सूचनां प्राप्तुं तथा श्री–अन्न–निर्मित–व्यञ्जनानां आस्वादनं कर्तुं सर्वान् प्रति आग्रहः कृतः।

हिन्दुस्थान समाचार / अंशु गुप्ता