मध्यप्रदेश: - मुख्यमंत्री डॉ.यादवः अद्य सागरे ज्ञानवीर–विश्वविद्यालयस्य उद्घाटनं करिष्यति
भोपालनगरम्, ११ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहन–यादवः अद्य बुधवासरे सागर–जनपदस्य खुरई–मार्ग–स्थितस्य ज्ञानवीर–विश्वविद्यालयस्य उद्घाटन–समारोहे मुख्यातिथिरूपेण सहभागी भविष्यति तथा विश्वविद्यालयस्य उद्घाटनं करिष्यति। जनसम्पर्क–अध
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालनगरम्, ११ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहन–यादवः अद्य बुधवासरे सागर–जनपदस्य खुरई–मार्ग–स्थितस्य ज्ञानवीर–विश्वविद्यालयस्य उद्घाटन–समारोहे मुख्यातिथिरूपेण सहभागी भविष्यति तथा विश्वविद्यालयस्य उद्घाटनं करिष्यति।

जनसम्पर्क–अधिकारी शिवम्–शुक्लः सूचनां दत्तवान् यत् मुख्यमंत्री डॉ.यादवः अद्य दमोह–सागर–जनपदयोः प्रवासे भविष्यति। मुख्यमंत्री दमोह–जनपदस्य हटानगरे महिला–सशक्तिकरण–सम्मेलने सहभागितां कृत्वा ४०५ कोटि–रूप्यकाणां मूल्यस्य विकास–कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।

ततः अनन्तरं मुख्यमंत्री डॉ.यादवः सागरे ज्ञानवीर–विश्वविद्यालयस्य उद्घाटन–समारोहे सहभागी भविष्यति। अस्मिन् अवसरे विशिष्टातिथिरूपेण उपमुख्यमंत्री तथा जनपदस्य प्रभारी–मन्त्री राजेन्द्र–शुक्लः, उच्च–शिक्षा–मन्त्री इन्द्रसिंह–परमारः च उपस्थितौ भविष्यतः। समारोहे खाद्य–नागरिक–आपूर्ति–उपभोक्ता–संरक्षण–मन्त्री गोविन्दसिंह–राजपूतः अध्यक्षतां करिष्यति।

अस्मिन् अवसरे तकनीकी–शिक्षा–कौशल–विकास–रोजगार–विभागेन तथा सूक्ष्म–लघु–मध्यम–उद्यम–विभागेन संयुक्तरूपेण युवा–संगम–वृहद्–रोजगार–मेलापक: अपि आयोज्यते। अस्मिन् रोजगार–मेलापके निजी–क्षेत्रस्य निर्माण्य: सहभागिन: भविष्यन्ति, ये यून: रोजगार–अवसरैः संयोजयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता