राष्ट्रीय–महिला–आयोगस्य अध्यक्षा विजया–राहटकरः अद्य भोपालनगरे जन–श्रवणं करिष्यति
भोपालनगरम्, ११ मार्चमासः (हि.स.)। राष्ट्रीय–महिला–आयोगस्य अध्यक्षा विजया–राहटकर: अद्य बुधवासरे महिलाभ्यः सम्बद्धानां सूचनानां समस्याः शीघ्र–निराकरणस्य उद्देश्येन मध्यप्रदेशस्य राजधान्यां भोपालनगरे जन–श्रवणं करिष्यति। जनसम्पर्क–अधिकारिणी बिन्दु–सु
विजया राहटकर (फाइल फोटो)


भोपालनगरम्, ११ मार्चमासः (हि.स.)। राष्ट्रीय–महिला–आयोगस्य अध्यक्षा विजया–राहटकर: अद्य बुधवासरे महिलाभ्यः सम्बद्धानां सूचनानां समस्याः शीघ्र–निराकरणस्य उद्देश्येन मध्यप्रदेशस्य राजधान्यां भोपालनगरे जन–श्रवणं करिष्यति।

जनसम्पर्क–अधिकारिणी बिन्दु–सुनील इत्यनया प्रदत्त–सूचनानुसारं राष्ट्रीय–महिला–आयोगस्य अध्यक्षा अपराह्णे १.३० वादने भोपाल–स्थिते शासकीय–महारानी–लक्ष्मीबाई–महाविद्यालये, पॉलिटेक्निक–चतुष्पथे, महिलासम्बद्धाः विविधाः सूचना: समस्याः च प्रत्यक्षं श्रोष्यति।

अस्मिन् जन–श्रवणे महिलाभ्यः स्वस्य समस्याः सूचना: च प्रत्यक्षतया राष्ट्रीय–महिला–आयोगस्य अध्यक्षायै निवेदयितुं अवसरः भविष्यति, येन तेषां विषयाणां शीघ्र–समाधानस्य दिशि आवश्यक–कार्यवाही सुनिश्चितीकरणं कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता