Enter your Email Address to subscribe to our newsletters


शिवपुरी, 11 मार्चमासः (हि.स.)। मध्यप्रदेशस्य ऊर्जा मन्त्री तथा शिवपुरीजिलस्य प्रभारी मन्त्री प्रद्युम्नसिंह तोमरः मङ्गलवासरे रात्रौ प्रशासनिकपुलिसाधिकारिभिः सह शिवपुरीजिलाचिकित्सालयस्य आकस्मिक निरीक्षणं कृत्वा स्वास्थ्यसेवानां स्थितेः परीक्षणं कृतवान्।
निरीक्षणकाले तेन चिकित्सालये प्रविष्टैः रोगिभिः तेषां सह आगतैः परिचारकैः च सह संवादः कृतः। उपचारव्यवस्था औषधानां उपलब्धता अन्यासां स्वास्थ्यसुविधानां च विषये सः जानकारीं प्राप्तवान्। अस्मिन् अवसरे सः चिकित्सालयपरिसरस्य विविधवार्डानां अवलोकनं कृत्वा व्यवस्थायाः समीक्षां अपि अकरोत्।
प्रभारी मन्त्री तोमरः निरीक्षणकाले यत्र यत्र व्यवस्थागतदोषाः दृष्टाः तत्र तेषां शीघ्रनिवारणार्थं सम्बन्धिताधिकारिभ्यः निर्देशान् अदात्। सः अवदत् यत् सामान्यजनानां कृते उत्तमाः सुलभाः च स्वास्थ्यसुविधाः उपलब्धाः करणं शासनस्य सर्वोच्चा प्राथमिकता अस्ति।
सः अपि अवदत् यत् चिकित्सालयानां नियमितनिरीक्षणं सामान्यजनैः सह प्रत्यक्षसंवादः च स्वास्थ्यसेवानां अधिकसुदृढतां प्रभावशीलतां च वर्धयितुं सहायकं भवति। सह एव अधिकारिणः निर्देशिताः यत् रोगिभ्यः काचिदपि असुविधा न भवेत् तथा चिकित्सालयव्यवस्थाः सुचारुरूपेण सञ्चालिताः भवन्तु।
----------------
हिन्दुस्थान समाचार