जल जीवन मिशनद्वारा ग्रामीण क्षेत्रेभ्यः लब्धं स्वच्छं पेयजलम् : गुड़ियाकठेरिया
औरैया, 11 मार्चमासः (हि. स.)। उत्तरप्रदेशराज्यस्य औरैयाजनपदस्य सदरविकासखण्डे जलोखर तथा भडारीपुर ग्रामपञ्चायतयोः जलार्पणकार्यक्रमः आयोजितः अभवत्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण क्षेत्रीयविधायिका गुडिया कठेरिया उपस्थिताऽभवत्। कार्यक्रमे जलज
फोटो


फोटो


औरैया, 11 मार्चमासः (हि. स.)।

उत्तरप्रदेशराज्यस्य औरैयाजनपदस्य सदरविकासखण्डे जलोखर तथा भडारीपुर ग्रामपञ्चायतयोः जलार्पणकार्यक्रमः आयोजितः अभवत्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण क्षेत्रीयविधायिका गुडिया कठेरिया उपस्थिताऽभवत्।

कार्यक्रमे जलजीवनमिशनस्य अन्तर्गतं ग्रामीणक्षेत्रेषु स्वच्छपेयजलप्रदानाय प्रवर्तमानानां योजनानां विषये जानकारी प्रदत्ता।

अस्मिन् अवसरे जिलापञ्चायतराजाधिकारी श्रीकान्त यादव, जलनिगमस्य (ग्रामीण) अधिशासी अभियन्ता इञ्जि अमन यादव, सहायक अभियन्ता पवन कुमार, सहायक अभियन्ता पङ्कज कुमार, तथा जूनियर इञ्जिनियर रविकान्त इत्यादयः सम्बन्धितविभागस्य अधिकारी उपस्थिताः आसन्।

एतदतिरिक्तं फर्मप्रतिनिधयः अशोक गुर्जर, देवेन्द्र सिंह, टीपीआई तथा डीपीएमयू दलस्य सदस्याः, एफटीके महिलाः, ग्रामप्रधानः, विद्यालयस्य छात्रछात्राः तथा बहुसंख्यकाः ग्रामवासिनः अपि कार्यक्रमे उपस्थिताः आसन्।

अधिकारिभिः उक्तं यत् जलोखरपेयजलयोजनायाः अन्तर्गतं ४४५ क्रियाशीलगृहसंयोजनानि तथा भडारीपुरपेयजलयोजनायाः अन्तर्गतं ४०७ क्रियाशीलगृहसंयोजनानि स्थापितानि सन्ति। एताभिः योजनाभिः ग्रामेषु प्रातःकाले सायंकाले च क्लोरीनयुक्तं स्वच्छपेयजलस्य आपूर्तिः क्रियते, येन ग्रामवासिभ्यः शुद्धं जलं उपलब्धं भवति।

कार्यक्रमे उपस्थितैः जनप्रतिनिधिभिः अधिकारिभिः च जलसंरक्षणस्य तथा स्वच्छपेयजलस्य महत्त्वस्य विषये अपि प्रकाशः कृतः, तथा ग्रामवासिनः प्रति जलस्य सदुपयोगं कर्तुम् आह्वानम् अपि कृतः।

--------------

हिन्दुस्थान समाचार