Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 मार्चमासः (हि.स.)।
दिल्ली-विधानसभायाः अध्यक्षः विजेन्द्र-गुप्तः तरनजीत-सिंह-सन्धू इत्यस्मै दिल्ली-नगरस्य नूतन-उपराज्यपालरूपेण शपथग्रहणस्य अवसरः प्राप्ते हार्दिकाभिनन्दनानि शुभाशंसाः च अर्पितवान्। सः अवदत् यत् नूतन-उपराज्यपालस्य विशालं राजनयिक-अनुभवः तथा सार्वजनिक-सेवायाः प्रति तस्य अचल-प्रतिबद्धता नूनं राष्ट्रिय-राजधानी-क्षेत्रस्य शासन-विकासयोः महत्वपूर्णं योगदानं दास्यति।
विधानसभाध्यक्षः अस्य महत्त्वपूर्ण-दायित्वस्य निर्वहणे सन्धोः सफलतां प्रति शुभकामनाः व्यक्तवान् तथा आशां व्यक्तवान् यत् तस्य कार्यकालः नगरवासिनां सेवायै समर्पितः, प्रतिष्ठितः फलदायी च भविष्यति।
विधानसभाध्यक्षः बुधवासरे लोक-निवासे आयोजिते आधिकारिक-शपथ-ग्रहण-समारोहे सहभागित्वं कृत्वा नूतन-उपराज्यपालं प्रति स्व-शुभकामनाः प्रकटितवान्।
---------------
हिन्दुस्थान समाचार