समृद्धि यात्रा: मुख्यमंत्री अद्य अररियायां किशनगंजे कोटिसंख्यकविकासयोजनानां करिष्यति शिलान्यासं उद्घाटनं च
पटना, 11 मार्चमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः बुधवासरे समृद्धियात्रायाः अवसरे अररियाकिशनगञ्जजिल्लयोः विविधविकासयोजनानां शिलान्यासम् उद्घाटनम् कार्यारम्भं च करिष्यति। अस्मिन्नवसरे तेन जिल्लयोः प्रवर्तमानानां विकासात्मककल्याणकारीयोजनानां समी
समृद्धि यात्रा:  मुख्यमंत्री आज अररिया और किशनगंज में करोड़ों की विकास योजनाओं का करेंगे शिलान्यास व उद्घाटन


पटना, 11 मार्चमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः बुधवासरे समृद्धियात्रायाः अवसरे अररियाकिशनगञ्जजिल्लयोः विविधविकासयोजनानां शिलान्यासम् उद्घाटनम् कार्यारम्भं च करिष्यति। अस्मिन्नवसरे तेन जिल्लयोः प्रवर्तमानानां विकासात्मककल्याणकारीयोजनानां समीक्षा अपि करिष्यते तथा स्थानीयनागरिकैः सह जनसंवादः अपि आयोज्यते।

मुख्यमन्त्री अररियाजिल्लायां ३३१ कोटिरूप्यकव्ययेन षट् योजनानां शिलान्यासं करिष्यति। तेन सह १५७ कोटिरूप्यकव्ययेन षष्टियोजनानां उद्घाटनं तथा ५८ कोटिरूप्यकव्ययेन द्वयोः योजनयोः कार्यारम्भः अपि क्रियते। कार्यक्रमस्य दौरान मुख्यमन्त्री अधिकारिभिः सह उपवेशनंकृत्वा जिल्लायां क्रियान्वितानां विविधविकासात्मककल्याणकारीयोजनानां प्रगतिं समीक्ष्य आवश्यकानि दिशानिर्देशानि दास्यति। ततः अनन्तरं सः सामान्यनागरिकैः सह संवादं कृत्वा तेषां समस्याः सुझावांश्च श्रोष्यति।

एवमेव क्रमशः मुख्यमन्त्री किशनगञ्जजिल्लायां १३३ कोटिरूप्यकव्ययेन ७३ योजनानां शिलान्यासं करिष्यति। तदतिरिक्तं १०२ कोटिरूप्यकव्ययेन ४९ योजनानां उद्घाटनं करिष्यति। अत्र अपि सः जिल्ले प्रवर्तमानानां विकासयोजनानां समीक्षां करिष्यति।

---------------

हिन्दुस्थान समाचार