Enter your Email Address to subscribe to our newsletters

दमोहनगरम्, मध्यप्रदेशः, १२ मार्चमासः (हि.स.)। मध्यप्रदेशस्य दमोहजनपदमुख्यालये भारतीयपुरातत्त्वसर्वेक्षणस्य (एएसआई) उपमण्डलकार्यालयस्य शुभारम्भः गुरुवासरे कृतः। अस्य कार्यालयस्य आरम्भेन जनपदस्य ऐतिहासिकसांस्कृतिकधरोहराणां संरक्षणसंवर्धनयोः नूतना दिशा प्राप्स्यते तथा पुरातात्त्विकक्रियाकलापानामपि गतिवृद्धिः भविष्यति।
अस्मिन् अवसरे प्रदेशस्य संस्कृतिपर्यटन-धार्मिकन्यासधर्मस्वविभागस्य राज्यमन्त्री धर्मेन्द्रसिंहः लोधी अवदत् यत् अद्यपर्यन्तं पुरातत्त्वसम्बद्धेषु कार्येषु सञ्चिकासु च कार्यार्थम् अधिकारिणः जबलपुरनगरं गन्तुं बाध्याः आसन्, येन समयस्य अत्यधिकः नाशः अभवत्। अधुना तु दमोहनगरे एव कार्यालयस्य उपलब्धतया कार्येषु शीघ्रता आगमिष्यति तथा प्रक्रियाः अधिकसुविधा-जनकाः भविष्यन्ति।
ऐतिहासिकधरोहराणां संरक्षणाय नूतना दिशा
राज्यमन्त्री लोधी उक्तवान् यत् दमोहजनपदः ऐतिहासिकसांस्कृतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। अस्मिन् जनपदस्य नोहटा इत्यत्र प्राचीनं शिवमन्दिरम्, कोडल इत्यत्र शिवमन्दिरं, बांदकपुरधाम तथा कुण्डलपुरधाम इत्यादयः अनेकानि धार्मिकाणि ऐतिहासिकानि स्थलानि सन्ति। एएसआई उपमण्डलकार्यालयस्य उद्घाटनेन एतेषां धरोहराणां संरक्षणे विकासे च महत्त्वपूर्णा भूमिका निर्वहिता भविष्यति।
तेन उक्तं यत् जनपदस्य प्रमुखानि ऐतिहासिकस्थलानि पर्यटनदृष्ट्यापि विकसितुं योजना निर्मीयते। नोहटाप्रदेशे पर्यटनप्रोत्साहनाय मार्गविभाजननिर्माणं सौन्दर्यीकरणं च क्रियमाणम् अस्ति। तदतिरिक्तं रानीदमयन्तीदुर्गस्य प्रायः विंशतिः कोटिरूप्यकव्ययेन जीर्णोद्धारः करिष्यते, यत्र भविष्ये लाइट् एण्ड् साउण्ड् शो इत्यस्य व्यवस्था अपि प्रस्ताविता अस्ति।
पर्यटनविकासाय प्रोत्साहनम्
विधायकः जयन्तमलैया अवदत् यत् एएसआई-कार्यालयाय प्राचीनगिरजाघरभवनस्य उपयोगः प्रशंसनीयः निर्णयः अस्ति। अस्य कृते सः जनपदाधिकारिणः सुधीरकुमारकोचरस्य प्रशंसां कृतवान्। सः अवदत् यत् बुन्देलखण्डप्रदेशः पञ्चमी अष्टमी शताब्द्योः ऐतिहासिकधरोहरैः समृद्धः अस्ति। एएसआई-कार्यालयस्य आरम्भेण एतेषां धरोहराणां संरक्षणेन सह तादृशानां ऐतिहासिकस्थलानामपि परिचयः भविष्यति, ये अद्यावधि व्यापकतया प्रकाशं न प्राप्तवन्तः। अनेन पर्यटनविकासः अपि प्रोत्साहितः भविष्यति तथा आगामिषु कालेषु दमोहः महत्त्वपूर्णं पर्यटनकेन्द्रं भवितुम् अर्हति।
दमोहजनपदस्य कृते महत्त्वपूर्णः उपहारः
भाजपाजनपदाध्यक्षः श्यामशिवहरे अवदत् यत् एएसआई-कार्यालयस्य उद्घाटनेन जनपदस्य ऐतिहासिकधरोहराणां संरक्षणकार्ये नूतना गतिः प्राप्स्यते। सः प्रधानमन्त्री नरेन्द्रमोदी, मुख्यमन्त्री डॉ.मोहनयादवः तथा राज्यमन्त्री धर्मेन्द्रसिंह-लोधीं प्रति कृतज्ञतां व्यक्तवान्। तेषां प्रयत्नस्य फलस्वरूपेण दमोहसदृशाय ऐतिहासिकजनपदाय एते महत्त्वपूर्णाः उपहाराः प्राप्ताः इति सः उक्तवान्।
तेन अपि सूचितं यत् जनपदस्य ग्रामेषु बहवः प्राचीनाः मठाः, मन्दिराणि धार्मिकस्थलानि च सन्ति, ये अधुना जीर्णावस्थायां स्थिताः सन्ति। एतेषां संरक्षणं पुनरुद्धारश्च आवश्यकः, येन जनपदस्य समृद्धा ऐतिहासिकधार्मिकपरम्परा सुरक्षिताऽस्तु।
पुरातात्त्विकक्रियाकलापानां गतिवृद्धिः
भारतीयपुरातत्त्वसर्वेक्षणस्य अधीक्षणपुरातत्त्वविद् शिवाकान्तबाजपेयी अवदत् यत् यस्मिन् भवने कार्यालयः स्थापितः, तत् ब्रिटिशकालस्य प्राचीनं भवनम् अस्ति, यत् पूर्वं गिरजाघररूपेण उपयुज्यते स्म। बहुवर्षेभ्यः एतत् भवनम् अनुपयुक्तम् आसीत् तथा स्थानीयस्तरे ‘गिरजाघरभवनम्’ इति नाम्ना प्रसिद्धम् अस्ति।
दमोहनगरे एएसआई उपमण्डल-कार्यालयस्य स्थापनया जनपदस्य राष्ट्रीयमहत्त्वस्य संरक्षितस्मारकाणां संरक्षणव्यवस्थापनयोः महान् लाभः भविष्यति। अद्यपर्यन्तं एतेषां स्मारकाणां सञ्चालनं सागरउपमण्डलकार्यालयस्य माध्यमेन क्रियमाणम् आसीत्, किन्तु अधुना दमोहे पृथक् कार्यालयस्य उपलब्धतया पुरातात्त्विकक्रियाकलापानां गतिः वर्धिष्यते तथा स्मारकाणां सुरक्षा संरक्षणं च अधिकं सुचारुरूपेण सम्भविष्यति।
तेन सूचितं यत् वर्तमानकाले जनपदे भारतीयपुरातत्त्वसर्वेक्षणस्य चतुर्दश संरक्षितस्मारकाणि सन्ति। नूतन-कार्यालयस्य आरम्भानन्तरं क्षेत्रे सर्वेक्षणकार्याणि अपि तीव्रतराणि करिष्यन्ते। अस्मिन् अवसरे जनपदपञ्चायतस्य अध्यक्षेण रंजीता-गौरवपटेलेन उपायुक्त-सुधीरकुमार-कोचरेण सह अन्ये जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्। कार्यक्रमस्य संचालनं डॉ.आलोक-सोनवलकर: अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता