Enter your Email Address to subscribe to our newsletters

पानीपतम्, 12 मार्चमासः (हि.स.)।
हरियाणा राज्य महिला आयोगस्य अध्यक्षा श्रीमती रेनू भाटिया गुरुवासरे जिला कारागारं पानीपत् इत्यस्य निरीक्षणं कृतवती। सा तत्र स्थितानां महिला बंदिनीनां स्थितिं तथा तासां कृते प्रदत्तानां सुविधानां परीक्षणं कृतवती। अस्मिन् अवसरे कारागार अधीक्षकः संजीव कुमार तथा अन्ये अधिकारी अपि उपस्थिताः आसन्।
अध्यक्षा रेनू भाटिया महिला विभागं गत्वा महिला बंदिनिभिः सह प्रत्यक्षतया संवादं कृतवती तथा तासां समस्याः श्रुतवती। अस्मिन् समये तया महिला बंदिनीनां कानूनी अधिकाराः तासां स्वास्थ्यस्थितिः तथा तासां बालकानां शिक्षायाः विषयः विषये विस्तृतं ज्ञानं प्राप्तम्।
श्रीमती रेनू भाटिया कारागारस्य पाकशालायाः अपि निरीक्षणं कृतवती तथा भोजनस्य परीक्षणं कृतम्। तया महिला बंदिनीनां कृते प्रदत्तस्य भोजनस्य प्रशंसा अपि कृता।
अस्मिन् अवसरे अध्यक्षा रेनू भाटिया अवदत् यत् कारागारस्य उद्देश्यं केवलं दण्डदानं न भवति अपि तु बंदिनीनां जीवनस्य सुधारः अपि भवति। तया 48 महिला बंदिनीनां समस्याः अपि श्रुताः। तासु 25 प्रतिशत महिला: स्वपतीन् हत्वा कारणं यत् तासां अन्येन सह प्रेम आसीत्। तथा 12 ते 15 प्रतिशत महिला: नशा तस्कर प्रकरणेषु तथा 15 प्रतिशत महिला: 420 वंचनाप्रकरणेषु आरोपिताः आसन्, यासां कस्यचित् प्रकारस्य पश्चात्तापः न दृष्टः।
तया अपि उक्तं यत् 48 महिला बंदिनिषु 12 महिला: अस्वस्थाः दृष्टाः। सा कारागार प्रशासनस्य प्रयासानां प्रशंसां कृत्वा अवदत् यत् महिला बंदिनीनां कौशल विकासेन सह संयोजनं करणीयं यथा मुक्तेः अनन्तरं ताः समाजे सम्मानपूर्वकं जीवनं यापयितुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार