मुख्यमंत्री योगी आदित्यनाथो देवीपाटन मंदिरेऽकरोत् दर्शनं पूजनं च, गौवंशेभ्यो दत्तं हरिततृणम्
बलरामपुरम्,12 मार्चमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे देवीपाटनमन्दिरस्य गर्भगृहे माता पाटेश्वरीदेव्याः दर्शनपूजनं कृतवान् तथा देशप्रदेशयोः सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्। ततोऽनन्तरं मुख्यमन्त्री मन्दिरपरिसरे स्थितां गोशालां गतव
CM Yogi


CM yogi


बलरामपुरम्,12 मार्चमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे देवीपाटनमन्दिरस्य गर्भगृहे माता पाटेश्वरीदेव्याः दर्शनपूजनं कृतवान् तथा देशप्रदेशयोः सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्। ततोऽनन्तरं मुख्यमन्त्री मन्दिरपरिसरे स्थितां गोशालां गतवान्, यत्र सः गोवंशेभ्यः हरिततृणं गुडं च खादितवान् तथा तान् स्नेहेन स्पृष्टवान्। अस्मिन् समये मन्दिरभ्रमणकाले देवीपाटनपीठाधीश्वरः मिथलेशनाथयोगीमहाराजः तेन सह उपस्थितः आसीत्।

मुख्यमन्त्री द्विदिवसीयदौरे बुधवासरे बलरामपुरनगरं प्राप्तवान्। तेन बलरामपुरे निर्माणाधीनं माता पाटेश्वरीविश्वविद्यालयं तथा चिकित्सामहाविद्यालयं निरीक्षितं, अधिकारिभिः सह विकासकार्याणां समीक्षासभा अपि कृता। अनन्तरं सः देवीपाटनमन्दिरं प्राप्त्वा तत्र रात्रिविश्रामं कृतवान्।

गुरुवासरे प्रातःकाले माता पाटेश्वरीदेव्याः दर्शनपूजनानन्तरं प्रायः ९:३५ वादने मुख्यमन्त्रिणः काफिला देवीपाटनमन्दिरात् भवानीपुरस्थितम् आदिशक्ति माता पाटेश्वरी पब्लिक् स्कूलस्य हेलिपैडं प्राप्तवान्, यतः सः अयोध्यानगरं प्रति प्रस्थितवान्।

अस्मिन् अवसरे मुख्यमन्त्री १९ मार्चतः आरभ्यमाणस्य देवीपाटनराजकीयमेलस्य व्यवस्थाः विषये अधिकारिभ्यः सूचना गृहीता तथा व्यवस्थाः सुदृढीकर्तुं निर्देशाः दत्ताः। तेन उक्तं यत् १९ मार्चतः चैत्रनवरात्रिः आरभ्यते। नवरात्रिमेलाकाले देवीपाटनशक्तिपीठे बहुसंख्यकाः श्रद्धालवः दर्शनार्थम् आगच्छन्ति। अतः श्रद्धालूनां सुरक्षा, सुगमदर्शनव्यवस्था, पेयजलसुविधा, स्वच्छता, निर्बाधविद्युत्प्रदानं तथा भीडनियन्त्रणस्य समुचितव्यवस्था सुनिश्चितीक्रियते।

मुख्यमन्त्री निर्देशं दत्तवान् यत् नवरात्र्याः अवसरें मन्दिरेषु धार्मिकस्थलेषु च समीपे विशेषस्वच्छताअभियानं चालयितव्यं तथा आवश्यकतानुसारं अतिरिक्तस्वच्छताकर्मचारिणां नियुक्तयोऽपि करणीयाः।

हिन्दुस्थान समाचार