Enter your Email Address to subscribe to our newsletters

कोलकाता, 12 मार्चमासः (हि.स.)। पश्चिमबङ्गालस्य राज्यपालः आर. एन. रविः गुरुवासरे स्वपत्नी लक्ष्मी रवि सह प्रसिद्धे शक्तिपीठे कालीघाटमन्दिरे माता कालीदेव्याः दर्शनं कृत्वा विधिवत् पूजाम् अकरोत्।राजभवनतः निर्गतायाः संक्षिप्तसूचनायाः अनुसारं राज्यपालः मन्दिरे विधिपूर्वकं पूजां कृत्वा पश्चिमबङ्गालस्य जनानां सुख शान्ति समृद्धये प्रार्थनाम् अपि अकरोत्।तथा च राज्यपालः राज्यस्य सांस्कृतिक आध्यात्मिक परम्परासु स्वविश्वासं व्यक्तीकृत्य जनकल्याणस्य कामनाम् प्रकटितवान्।
उल्लेखनीयं यत् पदभारग्रहणानन्तरं राज्यपालस्य प्रमुख धार्मिक सांस्कृतिक स्थलानां भ्रमणं तस्य औपचारिक कार्यकलापानां अङ्गत्वेन मन्यते। 🙏
हिन्दुस्थान समाचार