हज–यात्रा २०२६–वर्षस्य ज़ायरीनां सौविध्यर्थं रामलीला–प्राङ्गणे शिविरं स्थाप्यते
नवदिल्ली, १२ मार्चमासः (हि.स.)। दिल्ली–राज्य–हज–समितेः सभाध्यक्षा कौसरजहाँ इत्यस्याः अध्यक्षतायां हज–प्रासादे सम्पन्ना। अस्यां सभायां हज–यात्रा २०२६–वर्षस्य व्यवस्थापनस्य समीक्षणं कृतम्। दिल्ली तथा समीपवर्ती–प्रदेशेभ्यः हज–यात्रायां गन्तुं इच्छन्ती
हज यात्रा 2026  के ज़ायरीन की सुविधा के लिए रामलीला मैदान में कैंप लगाया जाएगा


नवदिल्ली, १२ मार्चमासः (हि.स.)। दिल्ली–राज्य–हज–समितेः सभाध्यक्षा कौसरजहाँ इत्यस्याः अध्यक्षतायां हज–प्रासादे सम्पन्ना। अस्यां सभायां हज–यात्रा २०२६–वर्षस्य व्यवस्थापनस्य समीक्षणं कृतम्। दिल्ली तथा समीपवर्ती–प्रदेशेभ्यः हज–यात्रायां गन्तुं इच्छन्तीनां ज़ायरीनां सौविध्यर्थं स्थाप्यमानं शिविरम् अस्मिन् वर्षे रामलीला–प्राङ्गणे स्थापयितुं निर्णयः कृतः। पूर्वं एतत् शिविरं दरगाह–फैज–इलाही इत्यत्र स्थापितः आसीत्, किन्तु न्यायालयस्य आदेशानन्तरं तत्र स्थितानां अतिक्रमणानां निष्कासनात् अनन्तरं अयं निर्णयः स्वीकृतः।

सभायां रामलीला–प्राङ्गणे स्थाप्यमानस्य शिविरस्य विषये विस्तृतचर्चा कृता तथा सम्बन्धित–अधिकारिभिः सह रामलीला–प्राङ्गणस्य निरीक्षणं कृत्वा तत्रस्थितपरिस्थितीनां अवलोकनम् अपि कृतम्। अस्यां सभायां दिल्ली–सर्वकारस्य राजस्व–विभागस्य मुख्यालयस्य उपायुक्तः तथा मध्य–जनपदस्य जनपदाधिकारी जी.सुधाकरेण सह अन्ये सम्बन्धित–विभागानां अधिकारिणः उपस्थिताः आसन्।सभायां एतत् अपि निश्चितं यत् हज–यात्रिणां सौविध्यर्थं दरगाह–फैज–इलाही इत्यत्र यथा सर्वसौविध्यसम्पन्नं शिविरं स्थाप्यते स्म, तथैव रामलीला–प्राङ्गणे अपि सर्वसौविध्यसम्पन्नं शिविरं स्थापितं भविष्यति। अत्र आगच्छतां हज–यात्रिणां तैः सह आगतजनानां च कस्यापि प्रकारस्य असौविध्यं न भवेत् इति विशेषतया ध्यानं दास्यते। तेषां निवास–विश्रामादिनां सर्वाः व्यवस्थाः करिष्यन्ते। पेयजलस्य जनसौविध्यानां च समुचितव्यवस्था अपि भविष्यति।

हज–प्रासाद–भवने आयोजितायां अस्यां सभायां दिल्ली–नगर–निगमस्य, दिल्ली–जल–संघस्य, दिल्ली–आरक्षकस्य, दिल्ली–यातायात–आरक्षकस्य, दिल्ली–अग्निशमन–सेवायाः, दिल्ली–शहरी–आश्रय–संशोधन–संघस्य च अधिकारिणः उपस्थिताः आसन्। सभायां दिल्ली–राज्य–हज–समितेः सदस्याः नाजिया–दानिशः, मोहम्मद–सादः, कार्यकारी–अधिकारी ए.ए.आरफी, उप–कार्यकारी–अधिकारी मोहसिन–अली इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान–समाचारः / मोहम्मद–ओवैसः

हिन्दुस्थान समाचार / अंशु गुप्ता