Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १२ मार्चमासः (हि.स.)मध्यप्रदेश–राज्यस्य राज्यपालः मंगूभाईपटेलः अद्य गुरुवासरे झाबुआ–जनपदस्य प्रवासे अस्ति। सः अत्र अनुसूचित–जनजाति–उपयोजनाया: अन्तर्गतं राष्ट्रिय–सिकल–सेल–एनीमिया–जागरूकता–कार्यक्रमे मुख्यातिथिरूपेण भागं ग्रहीष्यति।
अस्य कार्यक्रमस्य लक्ष्यं जनजातीय–समुदाये सिकल–सेल–एनीमियां प्रति जागरूकतावर्धनं तथा समये परीक्षणं उपचारं च प्रेरयितुम् अस्ति।
सहैव सः राजमाता-विजयाराजे-सिंधिया-कृषि–विश्वविद्यालयः, ग्वालियरस्य तत्वावधाने कृषि–उपकरण–बीज वितरण–कार्यक्रमे अपि मुख्यातिथिरूपेण सहभागी भविष्यति। अस्मिन् कार्यक्रमे कृषकान् उपकरणैः बीजैः च पुरस्कृत्य वितरिष्यति।
जनपदस्य जनसंपर्क-अधिकारी जिनेंद्रियः सगोरिया अवदत् यत् राज्यपालः मध्याह्ने प्रायः ०२:१० वादने गोपालपुरा–एयरस्ट्रिप, झाबुआ आगमिष्यति, तदनन्तरं कृषि–विज्ञान–केंद्रम्, झाबुआ प्रति गत्वा कार्यक्रमे सहभागित्वं करिष्यति। कार्यक्रमान्ते ०३:४५ वादने सः कृषि–विज्ञान–केंद्रात् प्रस्थानं कृत्वा तथा हेलीकॉप्टरविमान इन्दौरं प्रति यास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता