दाण्डी–मार्चमासस्य वर्षग्रन्थ्यां उपराष्ट्रपतिना प्रधानमन्त्रिणा च सह अनेकैः नेतृभिः स्वातन्त्र्य–सेनानिभ्यः नमनं कृतम्
नवदिल्ली, १२ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.–राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र–मोदी, लोकसभाध्यक्षः ओम–बिरला इत्यादिभिः सह अनेके नेतारः गुरुवासरे दाण्डी–संचलनस्य ९६–तम्यां वर्षग्रन्थ्यां महात्मा–गान्धिनं तथा स्वातन्त्र्य–सेनानिनः भावपूर्णय
दांडी मार्च की वर्षगांठ


नवदिल्ली, १२ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.–राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र–मोदी, लोकसभाध्यक्षः ओम–बिरला इत्यादिभिः सह अनेके नेतारः गुरुवासरे दाण्डी–संचलनस्य ९६–तम्यां वर्षग्रन्थ्यां महात्मा–गान्धिनं तथा स्वातन्त्र्य–सेनानिनः भावपूर्णया श्रद्धया नमनं कृतवन्तः। एते सर्वे औपनिवेशिक–शासनस्य विरुद्धं सत्य–अहिंसा–मार्गेण गत्वा भारतस्य स्वातन्त्र्यस्य दृढम् आधारं स्थापितवन्तः।

उपराष्ट्रपतिः सामाजिक–माध्यमे ‘एक्स’ इत्यत्र लिखितवान्— “अहं बापूं तथा अस्मिन् ऐतिहासिके संचलने सहभागीभूतान् सर्वान् वीरान् स्वातन्त्र्य–सेनानिनः प्रणमामि। यदा वयं आत्मनिर्भर–भारतस्य निर्माणं कुर्मः तथा विकसित–भारतस्य स्वप्नस्य दिशि अग्रे गच्छामः, तदा अस्मात् सत्याग्रहात् प्रेरिता आत्मनिर्भरता–भावना अस्माकं राष्ट्रस्य मार्गदर्शनं करिष्यति।”

प्रधानमन्त्री नरेन्द्र–मोदी अपि उक्तवान् यत् १९३० तमे वर्षे अद्यैव दिने दाण्डी–संचलनस्य आरम्भः अभवत्। अस्य आन्दोलनस्य सर्वासां विभूतीनां सादरं स्मरणं कृतम्।

लोकसभाध्यक्षः ओम–बिरला अवदत् यत् एषा साहसिकी पदयात्रा समग्रे देशे स्वातन्त्र्यस्य आकाङ्क्षां नूतन–ऊर्जया पूरितवती तथा कोटिशः भारतीयान् अन्यायपूर्ण–औपनिवेशिक–शासनस्य विरुद्धं एकीकृतवती। एषा प्रेरणादायिनी यात्रा सदा अस्माकं राष्ट्रिय–गौरवस्य स्वाधीनता–संघर्षस्य च अमिट-स्मृतिः भविष्यति।

गृहमन्त्री अमित–शाहः उक्तवान् यत् एषः स्वदेशी–दिशि कृतः सः महत्त्वपूर्णः पगः आसीत्, येन स्वाधीनता–आन्दोलनस्य दिशा परिवर्तिता।

सड़क–परिवहन–राजमार्ग–मन्त्री नितिन–गडकरी अवदत् यत् राष्ट्रपिता महात्मा–गान्धी १९३० तमे वर्षे अद्यैव दिने आंग्लानां अत्याचारी-लवण–अधिनियमस्य विरोधार्थं साबरमती–आश्रमात् ऐतिहासिकस्य दाण्डी–लवण–सत्याग्रहस्य आरम्भं कृतवान्, येन भारतीय–स्वाधीनता–संग्रामः नूतनां दिशां प्राप्तवान्।

कांग्रेस–अध्यक्षः मल्लिकार्जुन–खडगे उक्तवान् यत् बापू-इत्यनेन प्रदर्शिताः सिद्धान्ताः अद्यापि समानेन प्रकारेण प्रासंगिकाः प्रेरणादायकाश्च सन्ति। अस्मिन् पावने अवसरे वयं सर्वेषां स्वातन्त्र्य–सेनानिनां अद्वितीय–योगदानं तेषां महान् बलिदानं च विनयपूर्वकं स्मरामः।

विज्ञान–प्रौद्योगिकी–राज्यमन्त्री (स्वतन्त्र–प्रभारः) डॉ.जितेन्द्र–सिंहः उक्तवान् यत् एतत् साहसिकं कार्यं सहस्रशः जनान् प्रेरितवान् तथा उत्पीडकानां विरुद्धं शक्तिशाली–आन्दोलनेषु प्रमुखतमेषु एकत्वेन सदा स्मरणीयः भविष्यति।

नवीन–नवीकरणीय–ऊर्जा–मन्त्री प्रल्हाद–जोशी अपि अवदत् यत् एषः दिवसः तस्य साहसस्य, दृढ–संकल्पस्य सामूहिक–दृढ़तायाश्च स्मरणं कारयति, येन भारतस्य स्वाधीनता–मार्गाय आकारं प्रदत्तम्।

हिन्दुस्थान समाचार / Dheeraj Maithani