नेशनल–कॉन्फ्रेंस–दलस्य नेता मेहदी तथा पीपुल्स–कॉन्फ्रेंस–दलस्य प्रमुखः लोन जम्मू–कश्मीरस्य पूर्व–मुख्यमन्त्रिणः फारूक–अब्दुल्लायाः उपरि आक्रमणस्य निन्दां कृतवन्तौ
श्रीनगरम्, १२ मार्चमासः (हि.स.)। नेशनल–कॉन्फ्रेंस–दलस्य सांसदः आगा रुहुल्लाह–मेहदी तथा पीपुल्स–कॉन्फ्रेंस–दलस्य प्रमुखः सज्जाद–लोन गुरुवासरे जम्मू–कश्मीरस्य पूर्व–मुख्यमन्त्रिणः फारूक–अब्दुल्लायाः उपरि जातस्य आक्रमणस्य तीव्र-निन्दां कृतवन्तौ। बुधव
नेशनल–कॉन्फ्रेंस–दलस्य नेता मेहदी तथा पीपुल्स–कॉन्फ्रेंस–दलस्य प्रमुखः लोन जम्मू–कश्मीरस्य पूर्व–मुख्यमन्त्रिणः फारूक–अब्दुल्लायाः उपरि आक्रमणस्य निन्दां कृतवन्तौ


श्रीनगरम्, १२ मार्चमासः (हि.स.)। नेशनल–कॉन्फ्रेंस–दलस्य सांसदः आगा रुहुल्लाह–मेहदी तथा पीपुल्स–कॉन्फ्रेंस–दलस्य प्रमुखः सज्जाद–लोन गुरुवासरे जम्मू–कश्मीरस्य पूर्व–मुख्यमन्त्रिणः फारूक–अब्दुल्लायाः उपरि जातस्य आक्रमणस्य तीव्र-निन्दां कृतवन्तौ।

बुधवासरस्य रात्रौ जम्मूनगरस्य बहिःस्थिते ग्रेटर–कैलाश–प्रदेशे विवाह–समारोहात् प्रत्यागच्छन्तं ८८ वर्षीयम् अब्दुल्लां प्रति एकेन शस्त्रधारिणा पृष्ठतः गोली–प्रहारः कृतः, किन्तु सः कथञ्चिदपि सुरक्षितः अभवत्। आरोपिणः परिचयः जम्मूनगरस्य पुरानी–मण्डी–निवासी ६३ वर्षीयः कमल–सिंह–जमवालः इति रूपेण जातः। सः आरक्षकैः गृहीतः अस्ति तथा सः उक्तवान् यत् सः विंशतिवर्षेभ्यः अब्दुल्लां लक्ष्यीकर्तुं अवसरं प्रतीक्षमाणः आसीत्।

सांसदः रुहुल्लाह–मेहदी उक्तवान् यत् जम्मूनगरे जातायाः अस्याः निन्दनीयायाः घटनायाः सः कठोरतया निन्दां करोति, यत्र विवाह–समारोहे डॉ.फारूक–अब्दुल्ला तथा उपमुख्यमन्त्री सुरिन्दर–चौधरी इत्येतयोः उपरि गोली–प्रहारः कृतः। मेहदी स्वस्य फेसबुक–माध्यमे एतत् अभिव्यक्तवान्। श्रीनगर–लोकसभा–निर्वाचन–क्षेत्रस्य सांसदः मेहदी, यस्य सर्वकारेण सह बहुषु विषयेषु मतभेदाः सन्ति, अवदत् यत् एतादृशाः हिंसात्मकाः घटनाः अत्यन्तं चिन्ताजनकाः सन्ति। तेन बलं दत्तं यत् दोषिणां विरुद्धं अधिनियमानुसारं कठोर–कार्यवाही भवेत्।

अन्यतः हन्दवाडा–विधानसभा–निर्वाचन–क्षेत्रस्य विधायकः सज्जाद–लोन अपि अस्याः गोली–प्रहार–घटनायाः निन्दां कृतवान्। लोनः स्वस्य फेसबुक–माध्यमे लिखितवान् यत् डॉ.फारूक–अब्दुल्ला, सुरिन्दर–चौधरी तथा नासिर–असलमः इत्येतेषां उपरि कृतस्य अस्य भीरूतातापूर्ण–गोली–प्रहारस्य अहं निन्दां करोमि। ईश्वरस्य अनुग्रहात् ते सर्वे सुरक्षिताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani