एनएचएआईद्वारा निर्गतं तमिलनाडौ गंगैकोंडा चोलपुरं बाईपासनिर्माणस्य अनुबंधः
नवदिल्ली, 12 मार्चमासः (हि.स.)। भारतीय राष्ट्रीय राजमार्ग प्राधिकरण इत्यनेन तमिलनाडु-राज्ये राष्ट्रीय राजमार्ग 81 इत्यस्य कल्लगम्-स्थानात् मीनसुरुट्टी-प्रदेशपर्यन्ते गङ्गैकोंड-चोलपुरम्-परिवर्तमार्गस्य निर्माणार्थं अनुबन्धः प्रदत्तः। सप्त-किलोमी
एनएचएआई


नवदिल्ली, 12 मार्चमासः (हि.स.)।

भारतीय राष्ट्रीय राजमार्ग प्राधिकरण इत्यनेन तमिलनाडु-राज्ये राष्ट्रीय राजमार्ग 81 इत्यस्य कल्लगम्-स्थानात् मीनसुरुट्टी-प्रदेशपर्यन्ते गङ्गैकोंड-चोलपुरम्-परिवर्तमार्गस्य निर्माणार्थं अनुबन्धः प्रदत्तः। सप्त-किलोमीटर-दीर्घस्य अस्य द्वि-लेन-युक्तस्य ग्रीनफील्ड-परिवर्तमार्गस्य शिलान्यासः एकदिनपूर्वं मार्च-मासस्य एकादशे दिने भारतस्य प्रधानमन्त्रीणा कृतः।

एनएचएआई इत्यनेन उक्तं यत् अस्यां परियोजनायां 3.47 किलोमीटर-दीर्घाः सेवा-मार्गाः, द्वौ लघु-सेतू, द्वौ वीयूपी (वाहन-उपरि-सेतू), त्रयः एलवीयूपी (लघु-वाहन-उपरि-सेतवः) तथा अष्ट बॉक्स-कल्वर्ट-निर्माणं समाविष्टम् अस्ति। अस्य परिवर्तमार्गस्य निर्माणेन गंगैकोंडा चोलपुरम इत्यत्र स्थितस्य सहस्र-वर्ष-प्राचीनस्य बृहदीश्वर मंदिर इत्यस्य दर्शनार्थं आगच्छतां श्रद्धालूनां महती सुविधा भविष्यति। वर्तमानकाले राष्ट्रीय राजमार्ग 81 मन्दिरस्य अतीव समीपेन गच्छति, येन श्रद्धालूनां सुरक्षायाः जोखिमः वर्धते। परिवर्तमार्गस्य निर्माणेन गुरु-वाहनानां यातायातः मन्दिर-प्रदेशात् अपसृत्य नूतन-मार्गेण प्रवर्तिष्यते, येन श्रद्धालूनां यात्रा अधिका सुरक्षिताऽपि सुविधाजनका च भविष्यति।

अस्याः परियोजनायाः कारणेन वायु-प्रदूषणस्य अपि कमी भविष्यति तथा मन्दिरस्य शिलालेखेषु प्रदूषणजन्य-हानिः निवारिता भविष्यति। तथा गुरु-वाहन-आवागमनस्य कारणेन मन्दिराय सम्भाव्यमानं क्षतिं अपि निरोद्धुं शक्यते।

अस्य परिवर्तमार्गस्य अन्यत् लाभम् अपि अस्ति यत् श्रीरंगम इत्यत्र स्थितस्य प्रसिद्धस्य रंगनाथस्वामी मंदिर तथा चिदंबरम इत्यत्र स्थितस्य नटराज मंदिर इत्यस्य यात्रायाः समयः अपि न्यूनः भविष्यति।

अस्याः परियोजनायाः परिणामेन स्थानीय-अर्थव्यवस्था अपि सुदृढा भविष्यति तथा राष्ट्रीय-राजमार्ग-उपयोक्तृभ्यः अविच्छिन्न-यात्रानुभवः प्राप्तः भविष्यति।

-----------

हिन्दुस्थान समाचार