Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १२ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे १३ मार्चमसे पीएम–किसान-उत्सवदिवसस्य अवसरे प्रधानमन्त्री–किसान–सम्मान–निधि–योजनायाः २२–तमं पर्यायं प्रदास्यते। अस्मिन् अवसरे देशस्य कृषकाणां धनागारेषु प्रत्यक्षं धनराशिः हस्तान्तरिता भविष्यति। राजस्थानराज्ये ६६.७६ लक्ष–कृषकाणां कृते १,३३५ कोटि रुप्यकाणि उपलब्धानि करिष्यन्ते।
सहकारिता–राज्यमंत्री (स्वतंत्र–प्रभारः) गौतमकुमार–दकः अवदत् यत् असम–राज्ये गुवाहाटीमध्ये आयोजितकार्यक्रमे प्रधानमन्त्री ९ कोटि ३२ लक्षातीतं कृषकाणां धनागारेषु १८,६४० कोटिरूप्यकं डीबीटी–माध्यमेन स्थानांतरितं करिष्यति। सः अवदत् यत् राजस्थानराज्ये ६६.७६ लक्षातीतं कृषकाणां कृते १,३३५ कोटिरूप्यकं राशिः प्रदत्ता भविष्यति। योजनायाः अनुसारं प्रत्येक–पात्र–कृषकस्य धनागारे २,००० रुप्यकाणि प्रत्यक्षं प्रेषितानि भविष्यन्ति।
अस्मिन् अवसरे जयपुरे राज्य–कृषि–प्रबंधन–संस्थान–दुर्गापुरा-मध्ये राज्यस्तरीयः कार्यक्रमः आयोजितः भविष्यति, यस्मिन् मुख्यमंत्री भजनलाल–शर्मा सम्मिलिष्यति। तस्मात् प्रदेशस्य समस्त–जनपदेषु अपि कार्यक्रमाः आयोज्यन्ते। कार्यक्रमस्य सज्जा–समीक्षणार्थं सहकारिता–मन्त्री गौतमकुमार–दकः गुरुवासरे दुर्गापुरं आगतवान्। सः अधिकारिभ्यः कार्यक्रमस्य सफलतायै आवश्यक–दिशानिर्देशाः दत्तवान्।
स्मरणीयं यत् पीएम–किसान–सम्मान–निधि–योजनायाः अन्तर्गतं पात्र–कृषकाणां प्रतिवर्षं ६,००० रुप्यकाणि त्रि–सममित–पर्यायरूपेण प्रदत्तानि भवन्ति। अद्यतनपर्यन्तं अस्याः योजनायाः अन्तर्गतं २१–पर्यायैः ४.०९ लक्ष–कोटिरूप्यकाणि कृषकाणां धनागारेषु हस्तांतरितानि।
हिन्दुस्थान समाचार / अंशु गुप्ता