प्रधानमंत्री असमे, बंगाले च विकास परियोजनानां करिष्यति शुभारंभम्
नव दिल्ली, 12 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरात् असम तथा पश्चिमबंगाल राज्ययोः द्विदिवसीय भ्रमणे भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री असमे सप्तचत्वारिंशत्सहस्रषट्शतकोटिरूप्यकाधिकमूल्यायाः तथा पश्चिमबंगाले अष्टादशसहस्रषट्श
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 12 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरात् असम तथा पश्चिमबंगाल राज्ययोः द्विदिवसीय भ्रमणे भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री असमे सप्तचत्वारिंशत्सहस्रषट्शतकोटिरूप्यकाधिकमूल्यायाः तथा पश्चिमबंगाले अष्टादशसहस्रषट्शतअशीतिकोटिरूप्यकपरिमितायाः विभिन्नानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्रिकार्यालयस्य अनुसारं प्रधानमन्त्री शुक्रवासरे असमराज्यं गमिष्यति, यत्र सः सप्तचत्वारिंशत्सहस्रषट्शतकोटिरूप्यकाधिकमूल्यायाः अनेकानां विकासपरियोजनानाम् उद्घाटनं करिष्यति। प्रधानमन्त्री अपराह्णे एकवादने त्रिंशंन्निमिषेषु कोकराझारनगरे, सायं पञ्चवादने गुवाहाटीनगरे तथा शनिवासरे प्रातः दशवादने पञ्चचत्वारिंशन्निमिषान् यावत् सिलचरनगरे अपि अनेकानां परियोजनानां शिलान्यासं करिष्यति।

अतिरिक्ततया प्रधानमन्त्री शनिवासरे अपराह्णे द्विवादने कोलकातानगरे अमृतभारतस्टेशनयोजनायाः अन्तर्गतं पुनर्विकसितानां षण्णां प्रमुखरेलस्थानकानाम् उद्घाटनं करिष्यति।

एताः परियोजनाः न केवलं सम्पर्कव्यवस्थां सुगमां करिष्यन्ति, अपि तु जहाजरानी तथा रेलपरिवहनक्षेत्रयोः भारतस्य सामर्थ्यम् अपि प्रदर्शयिष्यन्ति।

एताः पहलाः पश्चिमबंगाले तथा पूर्वभारते आधारभूतसंरचनायाः सुदृढीकरणं, सम्पर्कवृद्धिं तथा आर्थिकविकासस्य तीव्रतां वर्धयितुं सर्वकारस्य निरन्तरप्रतिबद्धतां दर्शयन्ति।

-------------

हिन्दुस्थान समाचार