Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 मार्चमासः (हि.स.)।
महाराष्ट्रराज्यस्य बुलढाणा-जिलस्य ऐतिहासिकनिक्षेपाणां विकासार्थम् आयुषमन्त्री प्रतापराव-जाधवः केन्द्रीयसंस्कृति-पर्यटनमन्त्रिणा गजेन्द्रसिंह-शेखावत- महोदयेन सह मिलितवान्। गुरुवासरे संसद्-भवने सम्पन्नायां अस्यां भेंटायां आयुषमन्त्री तथा बुलढाणा-क्षेत्रस्य सांसदः प्रतापराव-जाधवः सिंदखेड-राजा तथा लोनार-झीलयोः विकासविषये चर्चा कृतवान् तथा तं तत्र आगमनाय आमन्त्रितवान्।
जाधवः एक्स-माध्यमे प्रकाशिते सन्देशे अवदत् यत् गजेन्द्रसिंह-शेखावतः बुलढाणा-जनपदं प्रति आगमनाय सहमतिं प्रदत्तवान् तथा तत्र पर्यटन-मन्त्रालयस्य भारतीय-पुरातत्त्व-सर्वेक्षणस्य च संयुक्त-सभा आयोजयितुं अपि उक्तवान्। अस्यां सभायां भक्तानां श्रद्धां दृष्ट्वा लोनार-प्रदेशे धारतीर्थे स्नान-व्यवस्थायाः पुनरारम्भः, लोनार-झीलस्य संरक्षणार्थं जलस्तर-वृद्धेः निवारणाय दृढ-व्यवस्थाः, झीलात् शत-मीटर-परिमिते क्षेत्रे स्थानीय-नागरिकानां गृह-निर्माण-नियमेषु शैथिल्यं दातुम् इत्यादयः विषयाः चर्चायां समावेश्यन्ते।
एतस्मात् अतिरिक्तं पिटाली-बाराव-निर्माणार्थं भूमिं दत्तवन्तः कृषकाः येषां सन्ति तेषां प्रतिपूर्ति-प्रक्रियायाः शीघ्रीकरणस्य अपेक्षा व्यक्ता, तथा सिंदखेड-राजा-प्रदेशे उत्खनन-काले प्राप्तायाः भगवान्-विष्णोः प्राचीन-मूर्तेः निमित्तं विशाल-मन्दिर-निर्माणस्य अपि प्रस्तावः कृतः। जाधवः अवदत् यत् बुलढाणा-जनपदस्य ऐतिहासिक-स्थानानां विश्व-मानचित्रे नूतन-परिचयं दातुं शासनस्य सहायता अत्यावश्यकास्ति।
लोनार-तडागो बुलढाणा-जिले स्थितं सरोवरम् अस्ति यत् उल्कापिण्ड-पतनस्य परिणामेन निर्मितम्। एतत् बेसाल्ट-शिलायां स्थितं प्रमुखं सरोवरम् अस्ति यस्य जलं लवणयुक्तम् अस्ति। अस्य संरक्षण-संवर्धनार्थं एतत् वन्यजीव-अभयारण्य-रूपेण घोषितम्। अत्र प्रायः एकसहस्र-द्विशत-पञ्चाशत्-वर्ष-प्राचीनानि मन्दिराणि सन्ति, येषु पञ्चदश मन्दिराणि जीर्ण-अवस्थायाम् सन्ति। झीलस्य निर्माण-कालः प्रायः द्विपञ्चाशत्-सहस्र-वर्ष-पूर्वम् इति मन्यते। किन्तु द्विसहस्र-दश-वर्षे प्रकाशिते अनुसन्धाने अस्य आयुः प्रायः पञ्च-सप्तति-सहस्राधिक-पञ्च-लक्ष-वर्षाणि इति निर्दिष्टा।
अस्य तडागस्य विषये विस्तृतम् अनुसन्धानं स्मिथसोनियन-संस्था, युनाइटेड-स्टेट्स-भूवैज्ञानिक-सर्वेक्षण-संस्था, भारतीय-भूवैज्ञानिक-समाजः तथा भौतिक-अनुसन्धान-प्रयोगशाला इत्यादिभिः संस्थाभिः कृतम्।
------------
हिन्दुस्थान समाचार