Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 12 मार्चमासः (हि.स.)। डॉ. सर्वपल्ली राधाकृष्णन राजस्थान आयुर्वेद विश्वविद्यालय इत्यस्य पेरिफेरल-फार्माकोविजिलेंस-केन्द्रेण अखिल भारतीय आयुर्वेद अनुसंधान परिषद, नवी-दिल्ली, इत्यस्य तत्वावधाने आयोजितस्य एकदिवसीय-फार्माकोविजिलेंस-जागरूकता-कार्यक्रमस्य पोस्टर-विमोचनं कुलगुरुणा प्रो. (डॉ.) गोविन्द-सहाय-शुक्लेन कृतम्। अयं एकदिवसीयः फार्माकोविजिलेंस-जागरूकता-कार्यक्रमः मार्च-मासस्य चतुर्दशे दिने विश्वविद्यालय-परिसरे आयोज्यते।
अस्मिन् अवसरे प्राचार्यः प्रो. (डॉ.) चन्दन-सिंहः, आयुर्वेद-विद्याशाखायाः अधिष्ठाता प्रो. महेन्द्र-कुमार-शर्मा, प्रो. गोविन्द-गुप्तः, उपकुलसचिवः तथा पीपीवीसी-समन्वयकः डॉ. मनोज-कुमार-अदलक्खा, अनुसंधान-अधिष्ठाता प्रो. देवेन्द्र-चाहरः, परीक्षा-नियन्त्रकः प्रो. राजाराम-अग्रवालः, प्रो. दिनेश-शर्मा, डॉ. मनीषा-गोयल, डॉ. निकिता-पंवार तथा जेआरएफ डॉ. ज्योति-जोशी उपस्थिताः आसन्।
समन्वयकेन डॉ. मनोज-कुमार-अदलक्खेन उक्तं यत् वैश्विक-स्तरे आयुर्वेदिक, सिद्ध, यूनानी तथा होम्योपैथी-औषधीनां तदनुषङ्गिक-उत्पादानां च उपयोगः निरन्तरं वर्धमानः अस्ति, अतः औषधि-सुरक्षायाः विषयः अत्यन्तं महत्त्वपूर्णः जातः। नेशनल फार्माकोविजिलेंस प्रोग्राम आयुष-औषधीनां गुणवत्ता-वर्धनं, उत्पादन-प्रोत्साहनं, सुरक्षा-सुनिश्चितता तथा सतर्कता-व्यवस्थां दृढीकर्तुं कार्यं करोति।
तेन उक्तं यत् अस्मिन् एकदिवसीय-कार्यशालायां औषधीनां दुष्प्रभाव-प्रतिवेदनम्, एडवर्स-ड्रग-रिएक्शन, रोगी-सुरक्षा तथा औषधि-सुरक्षा, अभिलेखन-प्रक्रिया तथा भ्रामक-औषधीय-विज्ञापन-निरोधः इत्यादिषु विषयेषु महत्त्वपूर्णा सूचना प्रदास्यते। सहैव एडवर्स-ड्रग-रिएक्शन तथा भ्रामक-विज्ञापन-प्रतिवेदनस्य विषये प्रतिभागिनः जागरूकाः अपि क्रियन्ते।
हिन्दुस्थान समाचार