बलरामपुरम् : समूहेन सह योजयित्वा कमला संजाता आत्मनिर्भरा
बलरामपुरम्, 12 मार्चमासः (हि.स.)। राष्ट्रिय ग्रामीण आजीविका मिशन इत्यस्य अन्तर्गतं महिलानां आर्थिकरूपेण सशक्तीकरणस्य दिशि जनपदे निरन्तरं प्रयासाः क्रियमाणाः सन्ति। योजनानां प्रभावी क्रियान्वयनेन अनेकाः महिलाः स्वरोजगारेण सम्बद्धाः सन्त्यः आत्मनिर
लाभार्थी महिला।


बलरामपुरम्, 12 मार्चमासः (हि.स.)।

राष्ट्रिय ग्रामीण आजीविका मिशन इत्यस्य अन्तर्गतं महिलानां आर्थिकरूपेण सशक्तीकरणस्य दिशि जनपदे निरन्तरं प्रयासाः क्रियमाणाः सन्ति। योजनानां प्रभावी क्रियान्वयनेन अनेकाः महिलाः स्वरोजगारेण सम्बद्धाः सन्त्यः आत्मनिर्भराः भवन्ति। अस्यैव क्रमस्य अन्तर्गतं विकासखण्ड बलरामपुरस्य ग्रामपञ्चायत धनगांवस्य निवासी कमला लकड़ा स्वसहायता समूहस्य माध्यमेन आजीविकाक्षेत्रे नूतनां पहचानं प्राप्नोति।

कमला तारा स्वसहायता समूहस्य सदस्या अस्ति। समूहात् सम्बद्धत्वात् अनन्तरं तस्यै स्वरोजगारस्य आरम्भस्य अवसरः प्राप्तः। तया समूहस्य माध्यमेन अशीतिसहस्ररूप्यकस्य ऋणं गृहीत्वा विविधाः आजीविकाकार्यक्रमाः आरब्धाः। प्रारम्भे तया कृषिकार्यम् एव मुख्यव्यवसायरूपेण स्वीकृतम्। वर्तमानसमये सा धान मक्का टमाटर गोधूम तरबूज इत्यादीनां विभिन्नानां मौसमीफसलानां कृषिं करोति।

कृषेः सह सह कमला सूकरपालनम् अपि आरब्धवती, येन तस्यै अतिरिक्ता आयः प्राप्ता। कमला वदति यत् टमाटरकृषेः तस्यै प्रायः एकलक्षरूप्यकस्य आयः प्राप्ता, अन्याभ्यः फसलाभ्यः तथा सूकरपालनात् अपि प्रायः एकलक्षरूप्यकस्य लाभः प्राप्तः। एवं सा समग्ररूपेण प्रायः द्विलक्षरूप्यकस्य वार्षिकीम् आयम् अर्जितवती।

अस्याः आयस्य कारणेन तस्याः परिवारस्य आर्थिकस्थिति पूर्वात् अपेक्षया पर्याप्तरूपेण सुदृढा जाता। कमला वदति यत् स्वसहायता समूहात् सम्बद्धत्वानन्तरं सा आत्मनिर्भरत्वं प्राप्तवती तथा परिवारस्य उत्तरदायित्वानि अधिकसम्यक् प्रकारेण निर्वहति, ग्रामस्य अन्यासां महिलानां कृते अपि प्रेरणारूपेण स्थिता अस्ति।

जिलाप्रशासनेन अपि राष्ट्रीय ग्रामीण आजीविका मिशनस्य माध्यमेन महिलानां सशक्तीकरणाय तथा ताः रोजगारैः सह सम्बद्धुं निरन्तरं प्रयासाः क्रियन्ते, येन जनपदे महिला सशक्तीकरणाय नूतना दृढता प्राप्यते।

---------------

हिन्दुस्थान समाचार