Enter your Email Address to subscribe to our newsletters

वाराणसी, 12 मार्चमासः(हि. स.)।
अन्ताराष्ट्रियगोमहोत्सवस्य २०२६ आयोजनं १४ मार्चतः १६ मार्चपर्यन्तं वाराणसीनगरे बनारसहिन्दूविश्वविद्यालयस्य कृषि विज्ञान संस्थानस्य शताब्दी कृषि सभागारे भविष्यति। एतां सूचनाम् आयोजनस्य सदस्यः धनञ्जयओझा अवदत्।
धनञ्जय ओझा उक्तवान् यत् गौसंस्कृतेः उत्सवः तथा ग्रामीणार्थव्यवस्थायाः महोत्सवः इत्यादिषु विषयबिन्दुषु अस्मिन् महोत्सवे चर्चा भविष्यति। त्रिदिवसीयम् अन्ता राष्ट्रियसम्मेलनम् गौसंरक्षणम्, पञ्चगव्यअनुसन्धानम्, प्राकृतिककृषिः, ग्रामीणउद्यमिता तथा गां प्रत्याधारितार्थव्यवस्थायाः विकासाय समर्पितं भविष्यति।
अस्मिन् महोत्सवे देशविदेशेभ्यः आगताः कृषकाः, गोशालासञ्चालकाः, वैज्ञानिकाः, शोधार्थिनः, स्टार्टअप् उद्यमिनः, नीतिविशेषज्ञाः तथा सामाजिकसंस्थानानां प्रतिनिधयः एकस्मिन् मञ्चे एकत्रिताः भविष्यन्ति। ते सर्वे गौआधारितसततविकासः, जैविककृषिः, पञ्चगव्यचिकित्सा तथा ग्रामीणनवाचाराः इत्येषु विषयेषु विचारविमर्शं करिष्यन्ति।
अस्य आयोजनस्य सफलतायै राष्ट्रियस्वयंसेवकसंघस्य गौसेवाकार्यक्रमः, सुरभि शोध संस्थानम् तथा अन्ये अपि अनेकाः सामाजिकसंस्थानाः सहयोगं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार