वाराणस्याः चित्रसेनपुरग्रामस्य छात्रा सीतांजलिः करिष्यति इसरोभ्रमणम्
वाराणसी, 12 मार्चमासः(हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे सेवापुरीविकासखण्डस्य कम्पोजिटविद्यालये अध्ययनरताया चित्रसेनपुरग्रामस्य छात्राया सीतांजलि पटेल इत्यस्याः चयनं बङ्गलुरुनगरे भारतीयअन्तरिक्षअनुसन्धानसङ्गठनस्य (इसरो) शैक्षिकभ्रमणार्थं जातम्। अ
चित्रसेनपुर गांव की सीतांजलि


वाराणसी, 12 मार्चमासः(हि.स.)।

उत्तरप्रदेशस्य वाराणसीनगरे सेवापुरीविकासखण्डस्य कम्पोजिटविद्यालये अध्ययनरताया चित्रसेनपुरग्रामस्य छात्राया सीतांजलि पटेल इत्यस्याः चयनं बङ्गलुरुनगरे भारतीयअन्तरिक्षअनुसन्धानसङ्गठनस्य (इसरो) शैक्षिकभ्रमणार्थं जातम्। अस्याः चयनात् ग्रामे हर्षोल्लासस्य वातावरणं जातम्। ग्रामवासिनः सीतांजलिं आशीर्वादं ददति, सीतांजलि अपि अतीव उत्साहिता अस्ति।

छात्रा सीतांजलिर्गुरुवासरे अवदत् यत् इसरोभ्रमणार्थं चयनात् तस्याः परिवारजनाः ग्रामवासिनः च अतीव प्रसन्नाः सन्ति। सा वैज्ञानिकानां आविष्कारान् द्रष्टुं इसरोसंस्थानस्य भ्रमणं करिष्यति। तस्याः मनसि एतत् अस्ति यत् भविष्ये सा अपि वैज्ञानिकः भवेत्। इसरोभ्रमणं तस्याः जीवनलक्ष्यस्य दिशि एकं सुखदं पदम् अस्ति। अतीतदिनेभ्यः सा खण्डस्तरीये आयोजितायां विज्ञानप्रतियोगितायां प्रथमस्थानं प्राप्तवती आसीत्।

उल्लेखनीयम् अस्ति यत् वाराणसीमण्डलस्य एडी बेसिक हेमन्त राव स्वमण्डलस्य चयनितान् छात्रान् छात्राश्च सह बङ्गलुरुनगरं नयिष्यति। तत्र छात्राणां छात्राणां च भारतीयअन्तरिक्षअनुसन्धानसङ्गठनस्य भ्रमणं कारयिष्यति। वाराणसीमण्डले एकादशजनपदेभ्यः परिषदीयविद्यालयानां द्वाविंशतिः बालकाः अस्य भ्रमणस्य कृते चयनिताः सन्ति।

---------------

हिन्दुस्थान समाचार