द्विदिवसीय–असम–प्रवासाय प्रधानमन्त्री नरेन्द्र–मोदी गुवाहाटी–नगरम् आगतः
गुवाहाटीनगरम्, १३ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शुक्रवासरे अपराह्णे प्रायः १:३० वादने वायुसेनायाः विशेष–विमानेन गुवाहाटीनगरस्य बोरझारस्थे लोकप्रिय–गोपीनाथ–बोरदलोई–अन्ताराष्ट्रिय–विमानतले द्विदिवसीय–असम–प्रवासाय उपस्थितः। उल्लेखनीय
असमः गुवाहाटी के लोकप्रिय गोपीनाथ बोरदलोई अंतरराष्ट्रीय हवाई अड्डे पर प्रधानमंत्री नरेन्द्र मोदी का स्वागत करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


गुवाहाटीनगरम्, १३ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शुक्रवासरे अपराह्णे प्रायः १:३० वादने वायुसेनायाः विशेष–विमानेन गुवाहाटीनगरस्य बोरझारस्थे लोकप्रिय–गोपीनाथ–बोरदलोई–अन्ताराष्ट्रिय–विमानतले द्विदिवसीय–असम–प्रवासाय उपस्थितः।

उल्लेखनीयम् अस्ति यत् पूर्वनिर्धारित–कार्यक्रमानुसारं प्रधानमन्त्री पश्चिम–बङ्गाल–राज्यात् गुवाहाटीं आगत्य हेलिकॉप्टर–विमानद्वारा कोकराझार–नगरं गन्तुं निश्चितम् आसीत्। किन्तु दुर्वातावरणस्य कारणात् तस्य यात्राकार्यक्रमः निरस्तीकृतः। परिणामतः प्रधानमन्त्री दिवसस्य अवशिष्टं समयं गुवाहाट्यां एव यापयितुं निर्णयं कृतवान्। तथापि कोकराझार–प्रवासस्य निरस्तीकरणस्य अन्तिम–सूचनाया: प्राप्तिपर्यन्तं आधिकारिक–सूचना प्रकाशं न प्राप्तवती।

ततः सः विमानतलात् कोइनाधारा–राज्य–अतिथिगृहं प्रति प्रस्थितः। तत्र स्थित्वा प्रधानमन्त्री पूर्वनिर्धारितेषु विविधेषु कार्यक्रमेषु आभासीय–माध्यमेन सहभागित्वं करिष्यति इति सूचना प्राप्ता।अस्मिन् अवसरे विमानतले प्रधानमन्त्रिणः स्वागताय असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा, केन्द्रीय–मन्त्री सर्वानन्द–सोनोवाल:, राज्यपालः लक्ष्मण–प्रसाद–आचार्य: इत्यादयः बहवः मन्त्रिणः, सांसदाः विधायकाश्च उपस्थिताः आसन्।

अन्तराले सामाजिक–माध्यम–मञ्चे फेसबुक् मध्ये मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा प्रधानमन्त्रिणः स्वागतं कृत्वा लिखितवान् यत् द्विदिवसीय–असम–यात्रया राज्यवासिनां कृते प्रायः ४७ सहस्र–कोटि–रूप्यक–व्ययेन बहुविध–विकास–परियोजनानां सन्देशः प्रदास्यते। अस्मिन् विशेष–अवसरे राज्यवासिनां पक्षतः प्रधानमन्त्रिणं स्वागतं कर्तुं अवसरं लब्ध्वा वयं स्वान् धन्यान् मन्यामहे।

हिन्दुस्थान समाचार / अंशु गुप्ता