Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ मार्चमासः (हि.स.)।काङ्ग्रेस–अध्यक्षः मल्लिकार्जुन–खरगे, लोकसभायां विपक्ष–नेता राहुल–गान्धी तथा काङ्ग्रेस–महासचिवः के.सी.वेणुगोपाल: इत्येतेषां उपस्थितौ शुक्रवासरे असम–विधानसभा–निर्वाचनसम्बद्धा दलस्य केन्द्रीय–निर्वाचन–समितेः (सीईसी) सभा अभवत्।असम–राज्यात् सांसदः तथा लोकसभायां काङ्ग्रेस–दलस्य उपनेता गौरव–गोगोई पत्रकारान् अवदत् यत् अस्यां सभायां आसनानां विषये विस्तरेण चर्चा कृता। अपेक्षा अस्ति यत् श्वः पर्यन्तम् अभ्यर्थिनां प्रथम–सूची प्रकाशिता भविष्यति। दलं अधिकांशेषु आसनेषु अभ्यर्थिनां घोषणां करिष्यति, तथा तेन गठबन्धन–दलानां कृते आवंटितानां आसनानाम् अपि सूचना ज्ञापयिष्यते।
उल्लेखनीयम् अस्ति यत् अस्य मासस्य अन्ते अथवा अग्रिम–मासस्य प्रारम्भे असम–राज्येन सह पञ्च–राज्यानां निर्वाचन–कार्यक्रमस्य घोषणा भवितुम् अर्हति।
गोगोईतः झारखण्ड–मुक्ति–मोर्चा–दलेन सह गठबन्धनस्य विषये प्रश्नः अपि पृष्टः, किन्तु तेन अस्य विषये स्पष्टम् उत्तरं न दत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता