Enter your Email Address to subscribe to our newsletters

जयपुरम्, 13 मार्चमासः (हि.स.)।
जयपुर नगर-निगमेन 14 मार्चात् 19 मार्चपर्यन्तं स्वच्छता-सप्ताहस्य आयोजनं क्रियते, यस्य अन्तर्गतं विभिन्नाः स्वच्छता-सम्बद्धाः कार्यक्रमाः आयोज्यन्ते। शनिवासरे अल्बर्ट हॉल स्थले स्वच्छता-संकल्प तथा जागरूकता-कार्यक्रमः आयोज्यते, यस्य उद्घाटनं मुख्यमन्त्री भजनलाल शर्मा करिष्यति।
स्वच्छता-सप्ताहस्य अन्तर्गतं 14 मार्च दिनाङ्के सर्वेषु जोन-स्तरेषु कार्य-योजना निर्माय स्वच्छता-सप्ताहस्य आरम्भः भविष्यति।
15 मार्च दिनाङ्के एक-प्रयोगीय-प्लास्टिक निषेधस्य विषये तथा प्लास्टिक-उत्पादानां उपयोगेन उत्पद्यमानानां दुष्प्रभावानां विषये जनानां जानकारी प्रदास्यते। प्लास्टिक-कचरेण वेस्ट टू आर्ट प्रतियोगिता अपि आयोज्यते तथा स्वच्छता-शपथः अपि दिलीयते।
16 मार्च दिनाङ्के सार्वजनिक-सामुदायिक-पिंक-शौचालयानां स्वच्छता सुनिश्चितीक्रियते।
17 मार्च दिनाङ्के सर्वेषु सरकारी-निजी-संस्थानेषु शौचालयानां स्वच्छता, सञ्चालनं तथा समुचित-रक्षणं सुनिश्चितं क्रियते।
18 मार्च दिनाङ्के सार्वजनिक-स्थानेभ्यः कीचड-अपवित्रतायाः निष्कासनं तथा नालीनां स्वच्छतार्थं श्रमदानम् आयोज्यते। तथा च जलाशयानां स्वच्छतायै अपि श्रमदानं क्रियते।
19 मार्च दिनाङ्के विद्यालयानां छात्रान् स्वच्छ भारत मिशन अन्तर्गतं स्वच्छ सर्वेक्षण 2025–26 विषये जागरूकाः कर्तुं कार्यक्रमः आयोज्यते। तेषां सेनेट्री वेन्डिंग मशीन तथा इन्सिनिरेटर इत्ययोः उपयोगस्य जानकारी अपि दीयते। स्वयंसहायता-समूहैः तथा एनजीओ संस्थाभिः सह सहयोगेन रैल्यः अपि आयोज्यन्ते।
हिन्दुस्थान समाचार