Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १३ मार्चमासः (हि.स.)।दिल्ली-उपराज्यपालः तरणजीत–सिंह–संधू शुक्रवासरे अत्र राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदी–मुर्मु इत्यनया सह साक्षात्कारं कृतवान्।
तरणजीत–सिंह–संधू सामाजिक–माध्यम–मञ्चे एक्स इत्यत्र प्रकाशिते लेखे अवदत् यत् अद्य राष्ट्रपतिना द्रौपदी–मुर्मु इत्यनया सह साक्षात्कारं कृत्वा तस्याः मार्गदर्शनं प्राप्तम्। तेन राष्ट्रपतेः प्रोत्साहनाय तं प्रति कृतज्ञता अपि व्यक्ता।
संधू अवदत् यत् अद्य राष्ट्रपतिभवनस्य प्रसिद्धस्य अमृत–उद्यानस्य अपि भ्रमणं कृतम्। तत्र वसन्तर्तौ विकसितानां पुष्पाणां सौन्दर्यस्य आनन्दं अनुभवन्तः दिल्ली–निवासिनः अपि मिलित्वा तेन सन्तोषः अनुभूतः।
अस्य अतिरिक्तं उपराज्यपालः अद्य दिल्ली–आरक्षक–आयुक्तेन सतीश–गोलचा इत्यनेन सह लोक–निवासे साक्षात्कारं कृतवान्। अस्मिन् अवसरे सुरक्षा, विधि–व्यवस्था, साइबर–अपराधः तथा उद्भवत्सु अपरम्परागत–विषयेषु सम्बन्धितानां समस्यानां समीक्षा कृता, तथा नूतन–दृष्टिकोणैः सह तेषां समाधान–विषये चर्चा अपि कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता