Enter your Email Address to subscribe to our newsletters

जयपुरम्, 13 मार्चमासः (हि.स.)।
राजस्थाने चिकित्सालयेषु इंटेंसिव केयर यूनिट (आईसीयू) सेवाः अधिकं सुदृढाः कर्तुं मानक-निर्देशिका निर्मीयमाणा अस्ति। अनेन गम्भीर-रोगिणां कृते उत्तमा गुणवत्तायुक्ता चिकित्सासेवाः उपलब्धाः भविष्यन्ति तथा आपत्कालीन-स्थितिषु चिकित्साप्रबन्धनम् अपि अधिकं प्रभावी भवितुं शक्यते।
चिकित्सा-स्वास्थ्य-विभागस्य प्रमुख-शासन-सचिवा गायत्री राठौड़ इत्यस्याः अध्यक्षतायां शुक्रवासरे वीडियो-सम्मेलन-माध्यमेन सभा आयोजिताभूत्। अस्यां सभायां गाइडलाइन-निर्माणार्थं विशेषज्ञेभ्यः सुझावाः स्वीकृताः।
प्रमुख-शासन-सचिवा अवदत् यत् आईसीयू-सेवानां सुदृढीकरणार्थं मेडिकल-कॉलेजेषु कार्यरतैः विशेषज्ञ-चिकित्सकैः, मुख्य-चिकित्सा-स्वास्थ्य-अधिकारीभिः तथा आईसीयू-प्रभारिभ्यः परामर्शाः याचिताः सन्ति। एतेषां सुझावानां आधारेण दिशानिर्देशाः निर्माय केन्द्रीय-सरकाराय प्रेषिताः भविष्यन्ति, तदनन्तरं मानक-गाइडलाइन निश्चिताः भविष्यन्ति।
निदेशक जनस्वास्थ्य डॉ. रवि प्रकाश शर्मा अवदत् यत् प्रस्तावित-निर्देशिकायां आईसीयू-कक्षेषु संक्रमण-निवारणम्, गम्भीर-रोगिणां समुचित-परिचर्या, प्रशिक्षित-कर्मचारिणां उपलब्धता तथा निगराणी-व्यवस्थायाः सुदृढीकरणे विशेषं ध्यानं दास्यते। तेन सह ऑर्गन सपोर्ट तकनीक, त्वरित-चिकित्सोपचारार्थं क्षमता-वृद्धिः तथा आधुनिक-उपकरणानां उपलब्धता अपि सुनिश्चितीक्रियते।
आईसीयू-कक्षेषु मल्टीपैरामीटर मॉनिटर, ऑक्सीजन-व्यवस्था तथा सक्शन-सुविधा, आईवी पम्प सहिताः वेंटिलेटर, डिफिब्रिलेटर तथा ऑक्सीजन-सिलिण्डरादीनि आपत्कालीन-उपकरणानि सुलभानि स्युः तथा तेषां सुचारु-कार्यशीलता सुनिश्चितीक्रियेत इत्यपि विशेषतया प्रतिपादितम्।
अस्मिन् सम्मेलने निदेशक आरसीएच डॉ. मधु रतेश्वर, अतिरिक्त-निदेशक (प्रशासन) डॉ. नरोत्तम शर्मा, एसएमएस चिकित्सालयस्य विभिन्न-विभागाध्यक्षाः, तकनीकी-समितेः सदस्याः, परियोजना-निदेशकाः, विभिन्न-मेडिकलमहाविद्यालयानां क्रिटिकल-केयर-प्रभारी-चिकित्सकाः, आईएमए तथा निजी-चिकित्सालयानां प्रतिनिधयः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार