Enter your Email Address to subscribe to our newsletters

रांची, 13 मार्चमासः (हि.स.)।
श्री महावीर मण्डल केन्द्रीय समिति, रांचेः अध्यक्षः सागर वर्मा, मन्त्री निलेश यादवः, उपाध्यक्षः राहुल सिन्हा (चंकी) तथा राजा सेन गुप्ता इत्येषां संयुक्त-तत्त्वावधानेन शुक्रवासरे रांची-नगरस्य उपायुक्तं मंजुनाथ भजंत्री इत्येनं सम्प्राप्य श्री रामनवमी महोत्सवस्य आयोजनं विषये चर्चा कृता।
अस्मिन् अवसरे उपायुक्तः समितेः पदाधिकारिणः आश्वासितवान् यत् जिला-प्रशासनस्य पक्षतः सर्वथा सहयोगः प्रदास्यते। सह एव उपायुक्तः 15 मार्च दिनाङ्के आयोज्यमानायां केन्द्रीय-शान्ति-समितेः सभायां अपि तान् आमन्त्रितवान्।
अस्मिन् अवसरे समितेः सहमन्त्री प्रकाश चन्द्र सिन्हा, उदय रविदासः, संतोष कुमार गुप्ता, कोषाध्यक्षः आनन्द जालान, अंकेक्षकः ब्रजेश कुमार, श्री रामनवमी श्रृंगार समिति इत्यस्य अध्यक्षः बबलू यादवः, कार्यकारी-अध्यक्षः मयंक गिरी, मन्त्री अजय वर्मा, संयोजकाः राकेश वर्मा, शंकर सिन्हा, जय सिंह यादव, सागर कुमार, रवीन्द्र वर्मा, रामधन बर्मन तथा अन्ये सदस्याः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार