Enter your Email Address to subscribe to our newsletters

कोरबा, 13 मार्चमासः (हि. स.)।
छत्तीसगढ़-शासनस्य महतारी वंदन योजना महिलानां आर्थिकसशक्तिकरणस्य तथा आत्मनिर्भरत्वस्य दिशि महत्त्वपूर्णां भूमिकां निर्वहति। मुख्यमन्त्री विष्णु देव साय इत्यस्य नेतृत्वे सञ्चाल्यमानस्य अस्य योजनायाः अन्तर्गतं महिलाभ्यः प्रतिमासं एकसहस्ररूप्यकाणां आर्थिकसहायता दीयते, येन ताः स्वान् लघु-लघु स्वप्नान् साकारयितुं दिशि अग्रे गच्छन्ति।
कोरबा जनपदे अपि अस्य योजनायाः सकारात्मकः प्रभावः दृश्यते। जनपदस्य सीतामढ़ी क्षेत्रे निवसन्ती श्रीमती कृष्णा कुर्रे महतारी वंदन योजनायाः अन्तर्गतं प्राप्तां धनराशिं सञ्चित्य स्वगृहे सौन्दर्यसेवाकेन्द्रं (ब्यूटी पार्लर) आरब्धवती। पूर्वं सा परिवारस्य आवश्यकतानां पूर्त्यर्थं बहिः गत्वा कार्यं कुर्वन्ती आसीत्, किन्तु तस्याः अभिलाषा आसीत् यत् स्वगृहस्य समीपे एव स्वकीयम् उद्योगं प्रारभेत।
महतारी वंदन योजनायाः विषये जानकारी प्राप्त्य सा आवेदनं कृतवती तथा प्रतिमासं प्राप्तां धनराशिं शनैः शनैः सञ्चेतुं आरब्धवती। किञ्चित् कालानन्तरं प्रायः 12 सहस्रात् 15 सहस्ररूप्यकपर्यन्तं धनं सञ्चिते सति सा स्वगृहे एव सौन्दर्यसेवाकेन्द्रं उद्घाटयितुं निर्णयं कृतवती। अधुना सा स्वगृहात् एव स्वकार्यं सञ्चालयति, येन तस्यै परिवारिककर्तव्यैः सह आयस्य स्थायीस्रोतः अपि प्राप्तः।
कृष्णा कुर्रे उक्तवती यत् तस्याः त्रयः कन्याः सन्ति, अधुना ताः तासां लघु-लघु आवश्यकतान् अपि सुलभतया पूरयितुं शक्नोति। पूर्वं अनेकासां आवश्यकतानां पूर्त्यर्थं तस्यै अन्येषाम् उपरि आश्रयितुं आवश्यकं भवति स्म, किन्तु अधुना सा स्वयमेव अर्जित्वा परिवारस्य सहयोगं करोति। अनेन परिवारस्य आर्थिकस्थितौ सुधारः अभवत् तथा गृहे सुखसमृद्धिः अपि आगता।
सा एतस्य उपक्रमस्य कृते मुख्यमन्त्री विष्णु देव साय प्रति कृतज्ञतां व्यक्तवती तथा अवदत् यत् राज्यसर्वकारस्य एषा योजना महिलाभ्यः अग्रे गन्तुं तथा आत्मनिर्भराः भवितुं अवसरं प्रदत्तवती। अधुना ताः सम्मानपूर्वकं आत्मविश्वासेन सह जीवनं यापयन्ति।
---------------
हिन्दुस्थान समाचार