निगमस्य साधारणसभायाम् महत्वपूर्णाः निर्णयाः — १०५ स्वच्छतख–कर्मिणां सेवाः नियमिताः
नवदिल्ली, १३ मार्चमासः (हि.स.)।नवदिल्ली–नगरस्य महापौरः राजा इकबाल–सिंहः शुक्रवासरे अवदत् यत् दिल्ली–नगर–निगमस्य साधारणसभायाम् राजधानी–नागरिकाणां हिताय कतिपया: महत्वपूर्णाः निर्णयाः स्वीकृता:। सभायाम् जल–संरक्षणं, पर्यावरण–संरक्षणं, अन्त्य–संस्कार–स
दिल्ली के महापौर राजा इकबाल सिंह साधारण सभा की बैठक में।


नवदिल्ली, १३ मार्चमासः (हि.स.)।नवदिल्ली–नगरस्य महापौरः राजा इकबाल–सिंहः शुक्रवासरे अवदत् यत् दिल्ली–नगर–निगमस्य साधारणसभायाम् राजधानी–नागरिकाणां हिताय कतिपया: महत्वपूर्णाः निर्णयाः स्वीकृता:। सभायाम् जल–संरक्षणं, पर्यावरण–संरक्षणं, अन्त्य–संस्कार–स्थलानां विकासः, कर्मचारी–कल्याणं च सम्बन्धितानां प्रस्तावानां अनुमोदनं कृतम्। महापौरस्य सूचनानुसारं १०५ स्वच्छता–कर्मिणां सेवाः नियमिताः कृताः।

सभायाम् नगर–निगमस्य पम्प–हाउस-इत्यस्य पुनर्निर्माणाय, स्लज–ड्रेन-इत्यस्य पम्प–हाउस-इत्यस्य आधुनिक–तंत्र–सुसज्जीकरणाय च एकः सीवेज–ट्रीटमेंट–प्लान्ट (एस.टी.पी.) निर्माण–प्रस्तावः अनुमोदितः। अस्मद्वारे सुन्दर–नगरि, शास्त्री–पार्क, आईपी–एक्सटेंशन, लक्ष्मी–नगर इतृयादिषु क्षेत्रेषु अवस्थितानां निगम–उद्यानानां उपचारित–जलप्रदानं सुनिश्चितं भविष्यति। एतत् जलं उद्यानेषु उद्यान–कार्याय उपयुक्तं भविष्यति, येन जल–संरक्षणं प्रवर्ध्यते तथा हरित–क्षेत्राणां विकासः साध्यते।

महापौरः अवदत् यत् अस्या: परियोजनायाः लक्ष्यं पम्पिंग–अवसंरचनां आधुनिकं कुर्वन् पर्यावरण–अनुकूल–तंत्रज्ञानस्य प्रवर्धनं कर्तुम् अस्ति। सः अपि अवदत् यत् निगमः राजधानी–नगरे हरित–क्षेत्रं वर्द्धयितुं तथा पारिस्थितिक–सन्तुलनं दृढयितुं निरन्तरं प्रयासं करोति।

सभायाम् निगम–अधीनस्थानां श्मशानानां, कब्रिस्तानानां तथा दफन–स्थलानां विकासं रक्षणं च सुनिश्चेतुं गैर–सर्वकारी–संघटनान्, रेजिडेन्ट–वेलफेयर–संस्थाः (आरडब्ल्यूएस) तथा स्वयं–सहायता–समूहानां अनुशंसानुसारं प्रस्तावान् अनुमोदितम्। अस्या: योजनाया: अन्तर्गतं २४ एन.जी.ओ., आर.डब्ल्यू.एस. तथा स्वयं–सहायता–समूहानां नामानि निश्चितानि।

तथा दक्षिणी–क्षेत्रे ग्रीन–पार्क–श्मशाने तथा नजफगढ–क्षेत्रे द्वारका सेक्टर–२४–श्मशाने पर्यावरण–अनुकूल-अन्त्य–संस्कार–पद्धतिं प्रवर्धयितुं १००% गोमय-उत्पलानां उपयोगं आधारित–पायलट–परियोजना कृता। एतत् पारंपरिक–काष्ठ–उपयोगं न्यूनयितुं सहायकं भविष्यति।

महापौरः पुनः सूचयित्वा अवदत् यत् दिल्ली–नगर–निगमे १०५ स्वच्छता–कर्मिणां सेवाः नियमिताः कृताः। पात्र–कर्मिणः स्थायी–आजीविकां प्राप्स्यन्ति इति प्रक्रिया पारदर्शिता–सहितं शीघ्रं च अग्रे वृद्धिं प्राप्स्यति।

सभायाम् विभिन्न–वार्ड-इत्येतेषु नागरिक–सौवियम्, स्वच्छता–व्यवस्था, स्वास्थ्य–सेवाः, आधारभूत–सुविधा च सम्बन्धितविषयेषु विस्तृता चर्चा कृता। महापौरः अवदत् यत् दिल्ली–नगर–निगमः राजधानी–नागरिकाणाम् उत्तमा: नागरिक–सेवाः प्रदातुं तथा तेषां जीवन–स्तरं सुधारयितुं पूर्ण–रूपेण प्रतिबद्धः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता