काङ्ग्रेसेन बोडोलैण्डेन सह विश्वासघातः कृतः, भाजपापक्षेण स्थायी शान्तिः स्थापिता — प्रधानमन्त्री
गुवाहाटीनगरम्, १३ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शुक्रवासरे असम–राज्यस्य कोकराझार–नगरे आयोजितं संचलनं आभासी–माध्यमेन सम्बोधयन् काङ्ग्रेस–दलेन उपरि बोडोलैण्डेन सह बहुवर्षपर्यन्तं विश्वासघातं कृतम् इति आरोपं कृतवान्। सः अवदत् यत् दशका
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को असम के कोकराझार में आयोजित रैली को वर्चुअल माध्यम से संबोधित करते हुए


गुवाहाटीनगरम्, १३ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शुक्रवासरे असम–राज्यस्य कोकराझार–नगरे आयोजितं संचलनं आभासी–माध्यमेन सम्बोधयन् काङ्ग्रेस–दलेन उपरि बोडोलैण्डेन सह बहुवर्षपर्यन्तं विश्वासघातं कृतम् इति आरोपं कृतवान्। सः अवदत् यत् दशकानां कालपर्यन्तं बोडोलैण्ड–प्रदेशः काङ्ग्रेस–दलस्य मिथ्या–प्रतिज्ञानां तथा कर्गद-सन्धिनां साक्षी अभवत्, यदा तु भाजपा–राजग–सर्वकारेण तस्मिन् प्रदेशे स्थायिन्याः शान्तेः विकासस्य च कृते सत्य–प्रयत्नाः कृताः।

प्रधानमन्त्री अवदत् यत् दुर्वातावरणस्य कारणात् सः कोकराझारं न आगन्तुं शक्तवान्, अतः गुवाहाटीतः एव जनान् सम्बोधयति। सः जनान् क्षमां याचमानः अवदत् यत् सः दिल्लीतः कोकराझारं प्रति प्रस्थितः आसीत्, किन्तु वातावारणस्य कारणेन गुवाहाट्यां एव अवतरित:।

मोदी अवदत् यत् यदा जनतया केन्द्रे असमे च काङ्ग्रेस–दलम् अपसार्य भाजपा–राजग–दलाय अवसरः दत्तः, तदा सर्वकारेण बोडोलैण्डे स्थायिन्याः शान्तेः कृते दृढाः प्रयत्नाः आरब्धाः। अस्या: चिन्तायाः अनुसारेण वर्षे २०२० तमे बोडो–शान्ति–सन्धौ हस्ताक्षरं कृतम्, यस्मिन् प्रथमवारं सर्वे प्रमुखानि संघटनानि समूहाश्च एकस्मिन् मञ्चे आनिताः।

प्रधानमन्त्री अवदत् यत् कोकराझारः तस्य समीपवर्ती–प्रदेशाश्च गतदशकेषु हिंसाया: अशान्तेः कठिनं कालं च दृष्टवन्तः। कदाचित् अत्र पर्वतेषु विस्फोटक–गुटिकानां ध्वनिः प्रतिध्वनितः, किन्तु अधुना परिस्थितिः परिवर्तिता अस्ति तथा च प्रदेशे शान्तेः विकासस्य च नूतनः अध्यायः आरब्धः।

सः अवदत् यत् भाजपा–राजग–दलस्य “डबल–इञ्जिन”–सर्वकारः असम–राज्यस्य परम्पराया: संरक्षणाय शीघ्र–विकासाय च निरन्तरं कार्यं करोति। अस्यैव क्रमस्य अन्तर्गतं शुक्रवासरे कोकराझारे ४५०० कोटि–रूप्यक–मूल्यानां विविध–विकास–परियोजनानां शिलान्यासः लोकार्पणं च कृतम्। तेषु ११०० कोटि–रूप्यक–परिमाणस्य धनराशिः बोडोलैण्ड–प्रदेशस्य मार्ग–विकासाय व्ययीक्रियते।

प्रधानमन्त्री अवदत् यत् वर्षे २०२० तमे सम्पन्नस्य सन्धे: अन्तर्गतं कृता: प्रतिज्ञा: निरन्तरं पूर्यन्ते। बोडो–भाषायै सहायक–राजभाषायाः पदवी प्रदत्ता अस्ति तथा च बोडोलैण्ड–प्रदेशाय १५०० कोटि–रूप्यक–परिमाणस्य विशेष–विकास–समूह: अपि प्रदत्तः। कोकराझारे चिकित्सालय–महाविद्यालयः अपि आरब्धः।

सः बोडो–समाजस्य महत: व्यक्तित्वान् प्रति श्रद्धाञ्जलिं समर्पयन् अवदत् यत् केषाञ्चित् सप्ताहपूर्वं गुवाहाट्यां समृद्धां बोडो–संस्कृतिं द्रष्टुं तस्मै अवसरः प्राप्तः। तेन बोडो–समुदायेन स्वभाषायाः संस्कृतेः संरक्षणाय च कृताः प्रयत्नाः प्रशंसिताः।

प्रधानमन्त्री अवदत् यत् काङ्ग्रेस–दलं मिथ्या–प्रतिज्ञानां विक्रय–स्थलम् इव अस्ति, तस्य प्रतिज्ञा: पूरयितुं न किञ्चित् संकल्पः भवति। यदा तु भाजपा–राजग–सर्वकारेण यत् उक्तं तत् पूरयितुं सत्प्रयासः कृतः। सः अवदत् यत् अद्य असम–राज्ये शान्तेः विकासस्य च नूतनः अध्यायः लिख्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA