“सरल संयोजन पटलस्य” माध्यमेन लप्स्यते विद्युतीकृत क्षेत्रेषु 150 किलोवॉट भारमितं यावत् नूतनविद्युत्सम्पृतता
- मध्य क्षेत्र विद्युत वितरण कंपनी द्वारा उपभोक्तॄणां हिते सरला एवं च पारदर्शिनी व्यवस्था प्रारब्धा भोपालम्, 13 मार्चमासः (हि.स.) ।मध्यप्रदेश मध्य क्षेत्र विद्युत वितरण कम्पनी स्वस्य कार्यक्षेत्रेषु—भोपाल, नर्मदापुरम, ग्वालियर तथा चम्बल संभागेषु—1
प्रतीकात्मक फोटो


- मध्य क्षेत्र विद्युत वितरण कंपनी द्वारा उपभोक्तॄणां हिते सरला एवं च पारदर्शिनी व्यवस्था प्रारब्धा

भोपालम्, 13 मार्चमासः (हि.स.) ।मध्यप्रदेश मध्य क्षेत्र विद्युत वितरण कम्पनी स्वस्य कार्यक्षेत्रेषु—भोपाल, नर्मदापुरम, ग्वालियर तथा चम्बल संभागेषु—150 किलोवाट् भारपर्यन्तं निम्नदाब-श्रेण्याः नूतन-विधुत्-संयोजनान् उपभोक्तृभ्यः प्रदातुं ऑनलाइन, सरल तथा पारदर्शी प्रक्रियां प्रवर्तितवती।

कम्पन्याः प्रबन्धसञ्चालकः ऋषि गर्ग शुक्रवासरे अवदत् यत् कम्पन्याः “सरल संयोजन पोर्टल” इत्यत्र उपलब्धस्य अस्यhttps://saralsanyojan.mpcz.in:8888/homeसंबन्धस्य माध्यमेन एते संयोजनाः ऑनलाइन रूपेण प्रदास्यन्ते। नूतनव्यवस्थानुसारं 150 किलोवाट् भारपर्यन्तं नूतनसंयोजनस्य आवेदनं केवलं “सरल संयोजन पोर्टल” इत्यस्य माध्यमेन एव ऑनलाइन रूपेण स्वीकृतं भविष्यति।

प्रबन्धसञ्चालकः अवदत् यत् अद्यपर्यन्तं उपभोक्तृभिः नूतनसंयोजनार्थं आवेदनानन्तरं 45 मीटरपर्यन्तं सेवा-रेखा (सर्विस लाइन) तथा आवश्यकता सति वितरण-परिवर्तकः (डिस्ट्रिब्यूशन ट्रान्सफार्मर), उच्चदाब/निम्नदाब-रेखादीनि अन्यानि अधोसंरचनात्मक-निर्माणकार्याणि स्वयमेव करणीयानि आसन्। अधुना अस्यां नूतनव्यवस्थायां वैध-विद्युतीकृत-क्षेत्रेषु एतानि सर्वाणि कार्याणि मध्य क्षेत्र विद्युत वितरण कम्पनी एव करिष्यति। अस्य कृते शर्ता अस्ति यत् उपभोक्ता मध्यप्रदेश विद्युत नियामक आयोग द्वारा निर्धारित-नियमेषु निर्दिष्टानुसारं “सप्लाई अफोर्डिंग चार्जेस” इत्यस्य भुगतानं करिष्यति।

तेन उक्तं यत् उपभोक्तृभ्यः नियामके निर्दिष्टेषु प्रावधानिषु यत्किमपि विकल्पं स्वेच्छया चयनं कर्तुं स्वातन्त्र्यं भविष्यति। एषा नूतना व्यवस्था उपभोक्तृ-अधिकारान् सुदृढीकर्तुं दिशि महत्त्वपूर्णं पदम् अस्ति। अस्य व्यवस्थायाः प्रवर्तनात् 150 किलोवाट् भारपर्यन्तं निम्नदाब-श्रेण्याः नूतनसंयोजनं ग्रहीतुं इच्छन्तः उपभोक्तारः अधुना सेवा-रेखा तथा अन्य-अधोसंरचना-निर्माणे उत्पन्नाः कठिनताः न अनुभविष्यन्ति।

उल्लेखनीयम् अस्ति यत् मध्यप्रदेश मध्य क्षेत्र विद्युत वितरण कम्पनी उपभोक्ता-केन्द्रिता कम्पनी अस्ति। कम्पनी द्वारा प्रदेशस्य सतत-विकासाय तथा मुख्यमन्त्री डॉ. मोहन यादव इत्यस्य “अभ्युदय मध्यप्रदेश” इत्यस्य अवधारणां साकारयितुं निरन्तरं सुशासनस्य दिशि प्रभावी पदानि गृह्यन्ते।

लाभाः —• अस्य व्यवस्थायाः प्रवर्तनात् लघु-मध्यम-उद्योगैः सह अन्यैः वाणिज्यिक-संस्थाभिः तथा नूतन-स्टार्टअप-उद्यमैः नूतनसंयोजनं सुलभतया प्राप्तुं शक्यते।• नूतनसंयोजनं ऑनलाइन रूपेण निश्चित-समयावधौ प्राप्तं भविष्यति।• एषा नूतना व्यवस्था मध्यप्रदेशस्य औद्योगिक-जगति नूतनयुगस्य आरम्भं करिष्यति तथा राज्ये उद्योग-स्थापनाय “ईज ऑफ डूइंग बिजनेस” इत्यस्य उद्देश्यस्य पूर्तिं करिष्यति।• एषा पहल मध्यप्रदेशस्य सतत-विकास-लक्ष्याणि प्राप्तुं सहायकत्वं करिष्यति।• उद्योगानां निरन्तर-स्थापनात् जीविकानां नूतनावसराः अपि उपलब्धाः भविष्यन्ति।

हिन्दुस्थान समाचार