Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १३ मार्चमासः (हि.स.)। राजस्थान–संपर्क–१८१ सहायताकेन्द्रस्य सामान्यजनस्य समस्यानां समाधानाय वरदानरूपेण प्रदर्क्ष्यते। सार्वजनिक–निर्माण–विभागस्य अतिरिक्त–मुख्य–सचिवः प्रवीण–गुप्ता शुक्रवासरे शासन–सचिवालये राजस्थान–संपर्क–सहायतांकस्य (१८१) निरीक्षणं कृतवान् तथा सम्बन्धित–अधिकारिभि: सह सभाम् आयोजितवान्। सः परिवादिभ्यः प्रत्यक्ष–संवादं कृत्वा तत्क्षणं समाधानाय अधिकारीषु निर्देशान् प्रदत्तवान्।
सार्वजनिक–निर्माण–विभागेन १८१ सम्पर्कांकस्य समस्यासु त्वरितं तथा गुणवत्तापूर्णं समाधानं कर्तुं उत्कृष्टं कार्यं कृतम्। मार्च–मासे प्राय: ६ दिवसेषु समस्या–समाधानं साधितम्। मार्चमासे अद्यपर्यन्तं ३२२८ सूचना: लिखिता:, येषु ७५२ सूचनानां निस्तारणं कृतम्। एतेन सह संतुष्टिरूपं प्रतिशतं ७९% प्राप्तम्।
अतिरिक्त–मुख्य–सचिवेन विभागस्य सम्बन्धिनः ११ परिवादिभि: सह प्रत्यक्षं संवाद: कृत: तथा समस्या–समाधानाय निर्देशः प्रदत्तः। श्रवण–समये परिवादिभ्यः विभागस्य मार्ग–स्थले अवैध–गतिरोधकाणि, मार्ग–पर्यन्तं मृत्तिका इत्यादिन् इत्यादीन् विषयान् संज्ञानाय आगतवन्तः। एतेषां समस्यायाः गंभीर–ध्यानं गृह्याधिकारीषु शीघ्रं समाधानाय निर्देशः प्रदत्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता