चैत्र नवरात्र मेला सज्जा : जिल्ला विंध्य कॉरिडोर व गंगाघाटस्य कृतवान् रात्रौ निरीक्षणम्
मीरजापुरम्, 13 मार्चमासः (हि.स.)। आगामिनि चैत्रनवरात्रमेलायाः सकुशलसम्पादनार्थं गुरुवासरे देररात्रौ जिलाधिकारी पवनकुमारगंगवारः अधिकारिभिः सह विंध्यप्रदेशस्य निरीक्षणं कृतवान्। अस्मिन् अवसरे सः विंध्यकॉरिडोरम्, पुरातनवीआईपीमार्गम्, पक्काघाटम् च नि
विंध्य कारिडोर का निरीक्षण करते जिलाधिकारी पवन कुमार गंगवार व अन्य।


मीरजापुरम्, 13 मार्चमासः (हि.स.)।

आगामिनि चैत्रनवरात्रमेलायाः सकुशलसम्पादनार्थं गुरुवासरे देररात्रौ जिलाधिकारी पवनकुमारगंगवारः अधिकारिभिः सह विंध्यप्रदेशस्य निरीक्षणं कृतवान्। अस्मिन् अवसरे सः विंध्यकॉरिडोरम्, पुरातनवीआईपीमार्गम्, पक्काघाटम् च निरीक्ष्य सम्बद्धाधिकारिणः प्रति अनेकान् आवश्यकनिर्देशान् अदात्।

निरीक्षणकाले जिलाधिकारी कॉरिडोरस्य छत्‌तले विद्यमानान् पानगुट्खादागान् तथा विभिन्नस्थानेषु लग्नान् जालान् शीघ्रं शुद्धीकर्तुं निर्देशं दत्तवान्। तथा च कॉरिडोरस्य कक्षाणां निरीक्षणं कुर्वन् सः मुक्तताराणां पाइप् दीवारस्य अन्तः स्थापितुं तथा अग्निशमनदलस्य पाइप् अपि सुरक्षितरूपेण व्यवस्थापयितुं आदेशं दत्तवान्। भग्नफॉल्ससीलिंगस्य तथा मलिनतायाः अपि शीघ्रं परिमार्जनस्य निर्देशाः दत्ताः।

तेन उत्तरप्रदेश-विंध्यधामतीर्थविकासपरिषद् द्वारा डीपीआरानुसारं स्थापितानां सामग्रीनां सुव्यवस्थापनं कर्तुं तथा सभागृहे उपवेशनव्यवस्थार्थं मेजकुर्स्यः स्थापयितुं अपि निर्देशः दत्तः। अपि च सीसीटीवीसभागृहस्य निरीक्षणं कृत्वा सर्वाणि कार्याणि निर्धारितसमये पूर्णीकर्तुं निर्देशाः प्रदत्ताः।

मुंडनस्थलस्य समीपे स्थितं पेयजल-कक्षं उद्घाट्य नलस्य सम्यक् जीर्णोद्धारं कर्तुं, द्वारसंख्या-पञ्चस्य समीपे जनसमूहनियन्त्रणार्थं बैरिकेडिंग् स्थापयितुं तथा मन्दिरपरिसरे प्राचीनबैनरफ्लेक्स् अपसार्य नूतनबैनराणि स्थापयितुं अपि आदेशः दत्तः।

जिलाधिकारी गङ्गाघाटे स्वच्छतां, बैरिकेडिंग च सुनिश्चित्य महिलानां कृते अस्थायि-वस्त्रपरिवर्तनकक्षस्य निर्माणं कर्तुं निर्देशं दत्तवान्। तथा च पक्काघाटस्य सीढीषु रक्तपीतरङ्गाभ्यां रङ्गलेपनं कर्तुं अपि आदेशः दत्तः।

अस्मिन् निरीक्षणे अपरजिलाधिकारी अजयकुमारसिंहः, नगरमजिस्ट्रेट् अविनाशकुमारसिंहः, उपजिलाधिकारी संजीवयादवः तथा कार्यदायिसंस्थायाः अन्ये अधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार