Enter your Email Address to subscribe to our newsletters

-छत्तीसगढ़स्य जिल्लासु 29 गौधाम्नां भविष्यति उद्घाटनम्
रायपुरम् 14 मार्चमासः (हि.स.)।
छत्तीसगढ़ राज्यस्य सर्वकारेण राज्ये निराश्रित-घुमन्तु-गौवंशस्य संरक्षणाय तेषां समुचित-व्यवस्थापनाय च “गौधाम योजना” इति योजना आरभ्यते। अस्याः योजनायाः औपचारिक-शुभारम्भः विष्णु देव साय नामकः मुख्यमंत्री अद्य शनिवासरे बिलासपुर जनपदे स्थिते गुरु घासीदास केन्द्रीय विश्वविद्यालय इत्यस्य प्रेक्षागारे आयोजितात् कार्यक्रमात् करिष्यति।
अस्याः योजनायाः अन्तर्गतं राज्यस्य अन्येषु जनपदेषु अपि 29 गौधामानां शुभारम्भः क्रियिष्यते। अस्मिन् अवसरे रामविचार नेताम (कृषि तथा पशुधन-विकासमन्त्री), छत्तीसगढ़ गौसेवा आयोग अध्यक्षः विशेषर पटेल सहिताः अन्ये स्थानीय-जनप्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।
उल्लेखनीयम् अस्ति यत् गौधाम-योजनायाः अन्तर्गतं राज्यस्य प्रत्येकस्मिन् विकासखण्डे 10 गौधामानां स्थापना-लक्ष्यम् निर्धारितम् अस्ति। अस्य आधारात् समग्रे राज्ये कुलतः 1460 गौधामाः स्थापिताः भविष्यन्ति, यत्र गौवंशस्य कृते शेड्, फेन्सिंग्, पेयजलम्, विद्युत् इत्यादयः आधारभूत-सुविधाः उपलब्धाः करिष्यन्ते।
पशुधन विकास विभाग अधिकारिणः अवदन् यत् योजनायाः अन्तर्गतं अधुना पर्यन्तं शासनद्वारा 36 गौधामानां प्रशासनिक-स्वीकृतिः प्रदत्ता अस्ति। तेषु 29 गौधामानां पञ्जीकरणम् छत्तीसगढ़ राज्य गौसेवा आयोग इत्यत्र कृतम् अस्ति।
एतेषां गौधाम्नां औपचारिक-शुभारम्भः 14 मार्च 2026 तमे दिने बिलासपुर जनपदस्य तखतपुर विकासखण्डे स्थितात् लाखासार ग्रामात् मुख्यमन्त्रिणा क्रियिष्यते। अस्मिन् एव अवसरे अन्येषु 10 जनपदेषु स्थितानां 28 गौधाम्नां शुभारम्भः आभासी-माध्यमेन (वर्चुअल-रीत्या) अपि क्रियिष्यते।
गौधाम-योजनायाः मुख्यः उद्देश्यः निराश्रितानां, घुमन्तूनां, तथा जप्त-गौवंश-पशूनां संरक्षणं संवर्धनं च सुनिश्चितं कर्तुम् अस्ति।
हिन्दुस्थान समाचार