झारखंड एएनएम प्रतियोगिता परीक्षाम् आधृत्य प्रशासनं निर्गतवत् निषेधाज्ञाम्
रांची, 14 मार्चमासः (हि.स.)। झारखण्ड कर्मचारी चयन आयोगः, राँची द्वारा आयोजितः कम्प्यूटर आधारितः झारखण्ड एएनएम प्रतियोगिता परीक्षा 2025 अष्टादशे तथा नवदशे मार्चतिथौ आयोजिता भविष्यति। एषा परीक्षा राँची जनपदस्य विभिन्नेषु द्वादश परीक्षा केन्द्रेषु आ
निषेधाज्ञा की प्रतीकात्मक तस्वीर


रांची, 14 मार्चमासः (हि.स.)।

झारखण्ड कर्मचारी चयन आयोगः, राँची द्वारा आयोजितः कम्प्यूटर आधारितः झारखण्ड एएनएम प्रतियोगिता परीक्षा 2025 अष्टादशे तथा नवदशे मार्चतिथौ आयोजिता भविष्यति। एषा परीक्षा राँची जनपदस्य विभिन्नेषु द्वादश परीक्षा केन्द्रेषु आयोजिता भविष्यति। परीक्षा त्रिषु पालिषु निर्धारिताः सन्ति।

परीक्षायाः कदाचारमुक्तं सञ्चालनं तथा विधि व्यवस्थाया संरक्षणार्थम् उपायुक्त सह जिलादण्डाधिकारी मञ्जूनाथ भजन्त्री राँची तथा एसएसपी राकेश रंजनयोः आदेशेन पुलिसबलस्य तथा पुलिसपदाधिकाऱिणां सह दण्डाधिकाऱिणां प्रतिनियुक्तिः कृता अस्ति।

प्रशासनस्य पक्षतः शनिवासरे प्रेस विज्ञप्तिः निर्गता यस्यां उक्तं यत् परीक्षायां सहभागीभवन्तः छात्राः तथा अभिभावकाः परीक्षा केन्द्रेषु भीडं कृत्वा विधिव्यवस्थां भङ्गयितुं प्रयतन्ते इति सम्भावना अस्ति। एतत् दृष्ट्वा अनुमण्डलदण्डाधिकारी सदर द्वारा एतेषां परीक्षा केन्द्राणां द्विशतमीटरपरिमिते क्षेत्रे निषेधाज्ञा जारीकृता अस्ति।

निषेधाज्ञाकाले पञ्च वा पञ्चाधिकाः व्यक्तयः एकत्र समागन्तुं निषिद्धाः भविष्यन्ति (सरकारीकार्ये नियुक्तान् पदाधिकाऱिणः कर्मचाऱिणश्च तथा सरकारीकार्यक्रमः शवयात्रा च विना)। कस्यचित् ध्वनिविस्तारकयन्त्रस्य प्रयोगः निषिद्धः भविष्यति। कस्यचित् अस्त्रशस्त्रस्य यथा बन्दूक राइफल रिवाल्वर इत्यादीनां वहनम् अपि निषिद्धं भविष्यति (सरकारीकार्ये नियुक्तान् पदाधिकाऱिणः कर्मचाऱिणश्च विना)।

तदनन्तरं दंडाचारः तीरधनुः गडासः भालः इत्यादीनि अन्यानि शस्त्राणि वहनम् अपि निषिद्धं भविष्यति (सर्वकारीकार्ये नियुक्तान् पदाधिकाऱिणः कर्मचाऱिणश्च विना)। तथा च कस्यापि प्रकारस्य सभा वा आमसभा आयोजनम् अपि निषिद्धं भविष्यति।

---------------

हिन्दुस्थान समाचार