मध्यप्रदेशः – मुख्यमंत्री अद्य कटनी–जनपद-प्रवासे, बरही–कृषक सम्मेलने भागं ग्रहीष्यति
भोपालनगरम्, १४ मार्चमासः (हि.स.)मध्यप्रदेशराज्यस्य मुख्यमंत्री डॉ.मोहन–यादवः अद्य शनिवासरे कटनी–जनपद-प्रवासे भविष्यति। सः बरही (विजयराघवगढ़) मध्ये आयोजिते कृषक–सम्मेलने सम्मिलित्वा २४३.२२ कोटि-रुप्यकाणां निर्माण–विकास–कार्याणां शिलान्यासं तथा लोकार
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम्, १४ मार्चमासः (हि.स.)मध्यप्रदेशराज्यस्य मुख्यमंत्री डॉ.मोहन–यादवः अद्य शनिवासरे कटनी–जनपद-प्रवासे भविष्यति। सः बरही (विजयराघवगढ़) मध्ये आयोजिते कृषक–सम्मेलने सम्मिलित्वा २४३.२२ कोटि-रुप्यकाणां निर्माण–विकास–कार्याणां शिलान्यासं तथा लोकार्पणं करिष्यति।

कार्यक्रमस्य विवरणम्

जनसम्पर्क–अधिकारी मनोज–श्रीवास्तवः अवदत् – मुख्यमंत्री डॉ.मोहन–यादवः जल–गंगा–संवर्धन–अभियानस्य अन्तर्गतं बरही–बृहत् तडागस्य सौंदर्यीकरणं आरम्भं करिष्यति। ततः बरही–बृहत् तडागात् श्री–विजयनाथ–धाम–मन्दिर–प्रांगण–सभा–स्थल-पर्यन्तम् आभार–संचलने सहभागं करिष्यति। मुख्यमंत्री सम्मेलने कृषि–विभागेन तथा सम्बन्धितविभागैः आयोजितायाः प्रदर्शिन्याः निरीक्षणं करिष्यति।

तेनैव प्रधानमन्त्री–कृषक–मित्र–योजना, प्रधानमन्त्री–कृषि–सिंचाई–योजना, डॉ.भीमराव–अम्बेडकर–कामधेनु–योजना, सुपर–सीडर, प्रधानमन्त्री–मत्स्य–संपदा–योजना, स्व–सहायता–समूह–धनागार–योजना, रिस्पॉन्सिबल–टूरिज्म–होमस्टे इत्यादिभ्यः योजनाभ्यः लाभं प्राप्य ७ हितग्राहिभ्यः वितरिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता