Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १४ मार्चमासः (हि.स.)केंद्रीय–कृषि–मंत्री शिवराज–सिंह–चौहानः अद्य शनिवासरे मध्यप्रदेश–राज्यस्य सीहोर–जनपदे प्रवासे भविष्यति। सः अत्र कलेक्टरेट–मण्डले आयोज्यमानायां “दिशा” सभायां सहभागं कृत्वा विकासकार्याणां योजनानां च समीक्षणं करिष्यति।
जनसम्पर्क–अधिकारी देवेन्द्र–ओगारे अवदत् – “केन्द्रीय–कृषि–मंत्री–शिवराज–सिंह–चौहानस्य अध्यक्षत्वे सीहोर–जनपद–पंचायत–सभाकक्षे प्रातः ११ वादने जनपद–विकास–समन्वय–समितिः ‘दिशा’ सभाम् आयोजयति। अस्यां सभायाम् जनपदस्य सञ्चालिताः विभिन्नाः शासकीय–योजनाः तथा विकासकार्याणां प्रगति–समीक्षणं भविष्यति।
सभायां जनप्रतिनिधयः सम्बन्धित–विभाग–अधिकारिणः च उपस्थिताः भविष्यन्ति। केन्द्र–राज्य–सर्वकारयोः योजनानां क्रियान्वयन-विषये चर्चा भविष्यति। योजनानां प्रभावी–सञ्चालनं, समस्याः निराकरणं, विकासकार्येषु तीव्रता च अधिगन्तव्या।”
सभानन्तरं केंद्रीय–मंत्री चौहानः सायं ४:३० वादने भोपाल–नगरीं प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता