Enter your Email Address to subscribe to our newsletters

आयुक्तः तथा जिलाधिकारी विभिन्नान् परीक्षाकेन्द्राणि निरीक्षितवन्तौ। उभयोः पाल्योः 18947 अभ्यर्थिनः परीक्षां दत्तवन्तः।
वाराणसी, 14 मार्च। उत्तरप्रदेश उपनिरीक्षकनियुक्तिः परीक्षा शनिवासरे वाराणसी जनपदे स्थितेषु 46 विभिन्नेषु परीक्षा केन्द्रेषु शान्तिपूर्वकं सम्पन्ना। परीक्षाकाले अभ्यर्थिनां सुविधां सुरक्षा व्यवस्थां च दृष्ट्वा जिलाप्रशासनेन व्यापकाः प्रबन्धाः कृताः। परीक्षा केन्द्रेषु पर्याप्तं पुलिसबलं नियुक्तम् आसीत्। सीसीटीवी कैमरा माध्यमेन निगराणी व्यवस्था अपि सुनिश्चिताऽभवत्। अभ्यर्थिनां प्रवेशात् पूर्वं सघनपरिशीलनं कृतम् यत् परीक्षाया निष्पक्षता पारदर्शिता च अविचलिता तिष्ठेत्।
वाराणसी परिक्षेत्रस्य मण्डलायुक्तः एस राजलिंगम् तथा जिलाधिकारी सत्येन्द्र कुमार नगरस्य विभिन्नान् परीक्षा केन्द्रान् गत्वा व्यवस्थाः अवलोकितवन्तौ। मण्डलायुक्तः दूरभाषेन अन्यैः माध्यमैः च निरन्तरं सम्पर्कं स्थापयन् वाराणसी मण्डलस्य विभिन्नेषु जनपदेषु आयोज्यमानायाः परीक्षायाः सुचितां सुनिश्चितुं सर्वान् सम्भवान् प्रयत्नान् अकरोत्। सः अवदत् यत् परीक्षार्थिनां सुविधार्थं सर्वाः व्यवस्थाः कृताः सन्ति।
जिलाधिकारी अवदत् यत् नगरे कुलं 46 परीक्षा केन्द्राणि निर्मितानि सन्ति यत्र द्विदिनपर्यन्तं परीक्षा आयोजिता भविष्यति। अस्मिन् कालखण्डे चतुर्षु पालिषु सहस्रशः अभ्यर्थिनः परीक्षायां सहभागीभविष्यन्ति। सः अवदत् यत् सम्पूर्णा परीक्षा प्रक्रिया शान्तिपूर्वकं पारदर्शितया च सम्पादयितुं प्रशासनतः सर्वाः आवश्यकाः व्यवस्थाः कृताः सन्ति।
जिलाधिकारी अपि अवदत् यत् भर्ती बोर्डेन निर्धारितस्य प्रोटोकॉल अनुसारं प्रत्येकस्मिन् परीक्षा केन्द्रे स्टेटिक मजिस्ट्रेट सेक्टर मजिस्ट्रेट तथा इनविजिलेटर नियुक्ताः सन्ति। तदतिरिक्तं प्रत्येकस्य परीक्षा कक्षस्य क्रियाकलापान् निरीक्षितुं सीसीटीवीचित्रग्राहकाः स्थापिताः सन्ति तथा नियन्त्रण कक्षाः अपि निर्मिताः सन्ति। एतेषां नियन्त्रण कक्षाणां माध्यमेन निरन्तरं परीक्षा केन्द्राणां निगराणी क्रियते।
जिलाप्रशासनस्य पुलिस विभागस्य च अधिकारीभिः परीक्षा केन्द्राणां निरन्तरं निरीक्षणं कृतम् तथा सम्पूर्णा परीक्षा प्रक्रिया दृढनिरीक्षणस्य अधीनं स्थापितम्।
उल्लेखनीयम् अस्ति यत् उत्तरप्रदेशे पुलिस उपनिरीक्षक दारोगा तथा समकक्षपदेषु प्रत्यक्षनियुक्तेः कृते 14 तथा 15 मार्चतिथ्योः लिखित परीक्षा आयोज्यते। प्रथमदिने आयोजितायां परीक्षायां उभयोः पाल्योः कुलं 38880 अभ्यर्थिनः पञ्जीकृताः आसन्— प्रथमपालौ 19440 तथा द्वितीयपालौ 19440। तेषु 18947 अभ्यर्थिनः उपस्थिताः अभवन्। तेषु प्रथमपालौ 9412 तथा द्वितीयपालौ 9535 अभ्यर्थिनः परीक्षायां सहभागिनः अभवन्।
हिन्दुस्थान समाचार