कृषि मंत्री लोक पर्वणि फूलदेई इत्यस्मिन् बालेभ्यः उपहारः
देहरादूनम्, 15 मार्चमासः (हि.स.)। कृषिमन्त्री गणेशजोशी रविवासरे स्वस्य शासकीयावासे स्वपरिवारसहितं उत्तराखण्डप्रदेशस्य लोकपर्व “फूलदेई” हर्षोल्लासेन पारम्परिकरीतिरिवाजैश्च आचरितवान्। अस्मिन् अवसरे पारम्परिकवेषभूषां धारयित्वा आगताः पर्वतीयसंस्कृतिस
बच्चों से बातचीत करते गणेश जोशी।


देहरादूनम्, 15 मार्चमासः (हि.स.)।

कृषिमन्त्री गणेशजोशी रविवासरे स्वस्य शासकीयावासे स्वपरिवारसहितं उत्तराखण्डप्रदेशस्य लोकपर्व “फूलदेई” हर्षोल्लासेन पारम्परिकरीतिरिवाजैश्च आचरितवान्। अस्मिन् अवसरे पारम्परिकवेषभूषां धारयित्वा आगताः पर्वतीयसंस्कृतिसंरक्षणसमितेः तथा कुर्माञ्चलसांस्कृतिककल्याणपरिषदः बालकाः कृषिमन्त्रिणः गणेशजोशेः आवासस्य देहल्यां पुष्पाणि च तण्डुलांश्च अर्पयित्वा गृहपरिवारस्य सुखसमृद्धिं प्रार्थितवन्तः।

बालकैः “फूलदेई–छम्मा देई, जतुके दियाला–उतुके सई” इत्यादीनि पारम्परिकलोकगीतानि गायित्वा पर्वस्य आनन्दः अधिकः कृतः। कृषिमन्त्री गणेशजोशी बालकान् स्नेहेन स्वागतं कृत्वा तेषां कृते उपहारान् दत्त्वा तेषां उज्ज्वलभविष्यस्य कामनां कृतवान्।

अस्मिन् अवसरे कृषिमन्त्री गणेशजोशी प्रदेशवासिभ्यः लोकपर्व फूलदेई इत्यस्य शुभकामनाः दत्त्वा अवदत् यत् उत्तराखण्डस्य समृद्धाः लोकपरम्पराः सांस्कृतिकविरासतश्च अस्य पर्वस्य माध्यमेन प्रकृतेः, सुखसमृद्धेः नूतनऊर्जायाश्च प्रतीकत्वेन प्रकाशन्ते। सः अवदत् यत् वसन्तऋतोः आगमनेन सह आचर्यमाणः अयं पर्वः समाजे प्रेम, सौहार्दं समृद्धिं च प्रसारयति।

मन्त्री गणेशजोशी अवदत् यत् यदा लघवः बालकाः गृहं गृहं गत्वा देहल्यां पुष्पाणि समर्पयन्ति तथा सुखसमृद्धेः प्रार्थनां कुर्वन्ति, तदा एतत् संस्कृतेः जीवंततां पारस्परिकभ्रातृत्वभावस्य च द्योतकं भवति। सः अपि अवदत् यत् एते लोकपर्वाः अस्माकं नवपीढीं स्वमूलपरम्परासु प्रकृतेः प्रति सम्मानभावं च शिक्षयन्ति।

तेन प्रदेशवासिभ्यः आह्वानं कृतं यत् सर्वे अपि स्वस्य लोकसंस्कृतेः परम्पराणां च संरक्षणे योगदानं ददतु, येन आगामिन्यः पीढयः अपि एताभिः अमूल्यविरासताभिः सम्बद्धाः भवितुं शक्नुवन्ति। मन्त्री गणेशजोशी सर्वेषां प्रदेशवासिनां जीवने सुखं, समृद्धिं, मंगलं च कामितवान्।

अस्मिन् अवसरे मन्त्रिणः गणेशजोशेः धर्मपत्नी निर्मलाजोशी, सचिवः चन्द्रशेखरजोशी, उपाध्यक्षाः मोनिकारावत, पूनम्पंवार, राकेशप्रियंका प्रधान, केन्द्रीयसांस्कृतिकसचिवा बबीतासाहलोहनी, पुष्पाबिष्ट, सीमाबिष्ट, गणेशकाण्डपाल, विनोदकाण्डपाल इत्यादयः अनेके जनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार