Enter your Email Address to subscribe to our newsletters

पटना नगरे रविवासरे ऐतिहासिकगान्धीमैदाने “एसबीआईपटना-मैराथन-२०२६” नामकस्य कार्यक्रमस्य सफलतया आयोजनं कृतम्। अयं कार्यक्रमः बिहारसर्कारस्य मद्यनिषेध-उत्पाद-निबन्धनविभागस्य तथा भारतीयस्टेटबैंकस्य संयुक्ततत्त्वावधाने आयोजितः आसीत्। “नशामुक्तबिहारार्थं धावनम् इति विषयाधारे आयोजिते अस्मिन् मैराथने १० सहस्राधिकाः प्रतिभागिनः उत्साहेन सहभागीभूत्वा नशामुक्तस्य स्वस्थस्य च बिहारस्य संकल्पं सुदृढीकृतवन्तः।
अस्य मैराथनस्य उद्देश्यं बिहारं नशामुक्तं कर्तुं, जनानां मध्ये नशामुक्तेः प्रति जागरूकतां वर्धयितुं तथा स्वस्थसमाजस्य निर्माणाय जनसहभागितां सुनिश्चितं कर्तुम् आसीत्। कार्यक्रमस्य आरम्भः ऊर्जस्वलेन जुम्बा-अभ्याससत्रेण अभवत्, येन प्रतिभागिषु उत्साहः ऊर्जा च सञ्चरितः।
अस्मिन् अवसरे बिहारस्य शिक्षामन्त्री सुनीलकुमारः, अन्तरराष्ट्रिय-बैडमिन्टन-क्रीडिका पी. वी. सिन्धुः, मुख्यसचिवः प्रत्ययअमृतः, मद्यनिषेध-उत्पाद-निबन्धनविभागस्य सचिवः अजययादवः, आयुक्तः उत्पाद-सह-निबन्धनमहानिरीक्षकः अंशुलअग्रवालः तथा अन्ये गण्यमान्याः अतिथयः मैराथनं हरिध्वजं दर्शयित्वा प्रस्थितवन्तः।
मैराथनस्य आरम्भः प्रातः ३:३० वादने गान्धीमैदानस्य द्वारसंख्या-०१ इत्यस्मात् अभवत्। निर्धारितः मार्गः गान्धीमैदानात् आरभ्य जेपीगङ्गापथम् तथा अटलपथम् पर्यन्तम् आसीत्। अटलपथात् यू-टर्न् कृत्वा प्रतिभागिनः तेनैव मार्गेण पुनः गान्धीमैदानस्य द्वारसंख्या-०१ प्रति आगत्य समापनरेखायां धावनस्य समापनम् अभवत्।
मैराथनस्य विभिन्नश्रेण्याः धावनस्पर्धाः भिन्नभिन्नकालान्तरे द्वारसंख्या-०१ इत्यस्मात् हरिध्वजप्रदर्शनपूर्वकं आरब्धाः। कार्यक्रमस्य सफलसञ्चालनार्थं प्रशासनस्य पक्षतः सुरक्षा, जनसमूहनियन्त्रणम्, यातायातव्यवस्था तथा विधि-व्यवस्थायाः विस्तृताः प्रबन्धाः कृताः। मार्गे दण्डाधिकाऱिणः, पुलिस-अधिकारीणः तथा पुलिसबलस्य नियुक्तिः कृताऽभवत्।
प्रतिभागिनां सुरक्षां दृष्ट्वा मार्गे अस्थायि-चिकित्साशिविराणि स्थापितानि। विशेषज्ञवैद्याः तथा हृदयरोगविशेषज्ञाः (कार्डियोलॉजिस्टाः) अपि नियुक्ताः आसन्। १०.५ किलोमीटरस्थाने चिकित्सकसहिताः एम्बुलन्स् व्यवस्थापिताः आसन् तथा समग्रमार्गे द्वे एम्बुलन्से निरन्तरं निगराण्यां स्थिते।
आपत्कालीनपरिस्थितीनां निवारणार्थं पटना मेडिकल कॉलेज एवं अस्पताल, नालंदा मेडिकल कॉलेज एवं अस्पताल, इन्दिरा गान्धी इंस्टिट्यूट ऑफ कार्डियोलॉजी, तथा इन्दिरा गान्धी इंस्टिट्यूट ऑफ मेडिकल साइंसेस इत्येषु संस्थासु आपत्कालीनचिकित्सासेवाः, शल्यकक्षाः तथा ट्रॉमा-केन्द्राणि सज्जीकृतानि आसन्।
मैराथने २१.२ किमी (अर्धमैराथन), १० किमी, तथा ५ किमी इत्यादीनां श्रेण्याः धावनस्पर्धाः अपि आयोजिताः। तासु देशविदेशयोः धावकाः, युवजनाः तथा क्रीडाप्रेमिणः बहुसंख्यया सहभागीभूत्वा नशामुक्तबिहारस्य सन्देशं जनजनपर्यन्तं प्रसारयितुं संकल्पं कृतवन्तः।
विजेतॄणां सूची४२.२ किमी (पूर्णमैराथन)प्रथमस्थानम् — सेडेमदेशहुसैन (इथियोपिया) — समयः ०२:२२द्वितीयस्थानम् — तेबिजेईकिंटोवेस (इथियोपिया) — समयः ०२:२६:३२तृतीयस्थानम् — इसहाईनन्दगूघिचोई (केन्या) — समयः ०२:२६:३६
हिन्दुस्थान समाचार