चैत्र नवरात्रं 19 मार्चतः शुभारब्धं, अस्मिन् वर्षे डोलिकायाम् आरुह्य आगमिष्यति माँ जगदंबा
जांजगीर चांपा, 15 मार्चमासः (हि. स.)।हिन्दुधर्मे चैत्रनवरात्रिपर्वणः विशेषं महत्त्वं मन्यते। अस्मिन् वर्षे चैत्रनवरात्रेः शुभारम्भः १९ मार्च २०२६ गुरुवासरे भविष्यति। नवदिनपर्यन्तं प्रवर्तमानस्य अस्य पर्वणः समये श्रद्धालवः मातुः दुर्गायाः नवस्वरूपाण
चैत्र नवरात्रि 19 मार्च से शुरू, इस वर्ष डोली पर सवार होकर आएंगी माँ जगदंबा


जांजगीर चांपा, 15 मार्चमासः (हि. स.)।हिन्दुधर्मे चैत्रनवरात्रिपर्वणः विशेषं महत्त्वं मन्यते। अस्मिन् वर्षे चैत्रनवरात्रेः शुभारम्भः १९ मार्च २०२६ गुरुवासरे भविष्यति। नवदिनपर्यन्तं प्रवर्तमानस्य अस्य पर्वणः समये श्रद्धालवः मातुः दुर्गायाः नवस्वरूपाणाम् विधिवत् पूजाअर्चनां कृत्वा व्रतं धारयिष्यन्ति तथा गृहेषु कलशस्थापनां कृत्वा मातरं आराधयिष्यन्ति।

ज्योतिषाचार्यः पण्डितः अतुलकृष्णद्विवेदी कथयति यत् चैत्रमासस्य शुक्लपक्षस्य प्रतिपदातिथेः नवरात्रेः आरम्भः भवति तथा नवमीतिथौ रामनवम्या सह अस्य समापनं भविष्यति। अस्मिन् काले भक्ताः मातरं दुर्गां उपास्य सुखसमृद्धिं कल्याणं च प्रार्थयन्ति।

पञ्चाङ्गानुसारं चैत्रमासस्य शुक्लपक्षस्य प्रतिपदातिथिः १९ मार्च २०२६ दिवसे प्रातः ६:५२ वादनात् आरभ्य २० मार्च प्रातः ४:५१ वादनपर्यन्तम् भविष्यति। उदयातिथेः आधारपरं नवरात्रेः आरम्भः १९ मार्च इत्येव मान्यते।

घटस्थापनस्य शुभमुहूर्ताः

नवरात्रेः प्रथमदिने कलशस्थापनायाः विशेषं महत्त्वं वर्तते। तस्य कृते द्वौ प्रमुखौ शुभमुहूर्तौ निर्दिष्टौ स्तः।

प्रथमः मुहूर्तः प्रातः ६:५२ वादनात् ७:४३ वादनपर्यन्तम्।

द्वितीयः अभिजित्मुहूर्तः मध्यान्हे १२:०५ वादनात् १२:५३ वादनपर्यन्तम्।

तथा च मीनलग्नम् १९ मार्च दिवसे प्रातः ६:२६ वादनात् ७:४३ वादनपर्यन्तम् भविष्यति, यत् घटस्थापनायाः शुभं मन्यते।

डोल्यां आरूढा आगमिष्यति माता दुर्गा

पण्डितद्विवेदी कथयति यत् नवरात्रिः यस्मिन् दिने आरभ्यते, तस्य आधारेण देव्याः वाहनम् निर्धारितं भवति। अस्मिन् वर्षे नवरात्रिः गुरुवासरे आरभ्यते, अतः मातुः दुर्गायाः डोल्यां आगमनम् इति मान्यता अस्ति। धार्मिकमान्यतानुसारं डोल्यां आगमनं समाजे किञ्चित् उतारचढावं प्राकृतिकअसन्तुलनं च सूचयति। अतः भक्तैः विशेषपूजाअर्चनां कृत्वा मातरं प्रसादयितुं प्रयत्नः कर्तव्यः।

नवरात्रिकाले मन्दिरेषु गृहेषु च मातुः दुर्गायाः पूजा, भजनकीर्तनं तथा विविधाः धार्मिकाः अनुष्ठानाः आयोजिता भविष्यन्ति। भक्ताः समग्रं नवदिनपर्यन्तम् श्रद्धाभक्तिसहितं मातुः विविधस्वरूपाणां पूजनं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार