मुख्यमंत्री भजनलाल शर्मा ‘विकसित राजस्थान रन’इत्यस्मै दर्शितो हरितध्वजः
जयपुरम्, 15 मार्चमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् नियमितं धावनं (दौड्) स्वस्थजीवनस्य मूलमन्त्रः अस्ति। दिवसस्य आरम्भः धावनेन सह क्रियमाणः चेत् दिवसभरं ऊर्जा तिष्ठति, स्वास्थ्यं सम्यक् भवति तथा सकारात्मकचिन्तनस्य विकासः अपि भवति। द
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 15 मार्चमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् नियमितं धावनं (दौड्) स्वस्थजीवनस्य मूलमन्त्रः अस्ति। दिवसस्य आरम्भः धावनेन सह क्रियमाणः चेत् दिवसभरं ऊर्जा तिष्ठति, स्वास्थ्यं सम्यक् भवति तथा सकारात्मकचिन्तनस्य विकासः अपि भवति। देशस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारब्धः फिटइण्डियाअभियानः देशवासिनः स्वस्थजीवनशैलीं स्वीकर्तुं प्रेरितवान्। शर्मा युवान् प्रति आह्वानं कृत्वा अवदत् यत् ते स्वस्थदिनचर्यां पालनं कृत्वा स्वयम् स्वस्थाः सन्तु तथा प्रदेशस्य विकासे सक्रियं योगदानं ददतु, येन प्रदेशः नवीनाः उन्नतयः स्प्रष्टुं शक्नुयात्। यदि प्रदेशवासी एकं पदं अग्रे गच्छेयुः तर्हि राजस्थानप्रदेशः बहुगुणं प्रगति करिष्यति।

मुख्यमन्त्री शर्मा राजस्थानदिवसस्य उपलक्ष्ये आयोज्यमानानां कार्यक्रमाणां श्रृंखलायां रविवासरे जयपुरनगरे स्थितात् अमरजवानज्योति स्थात् आयोजितस्य “विकसितराजस्थानरन्-२०२६” कार्यक्रमस्य सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरि सः समग्रप्रदेशे आयोज्यमानस्य “विकसितराजस्थानरन्” कार्यक्रमस्य हरिध्वजं दर्शयित्वा तस्य प्रस्थानं कृतवान्।

मुख्यमन्त्री अवदत् यत् राज्यसर्कारेण गतवर्षात् आरभ्य राजस्थानदिवसः तिथ्यानुसारं उत्सवेन मननीयः इति नूतना परम्परा आरब्धा। ३० मार्च १९४९ दिवसे तदा तत्कालीनगृहमन्त्रिणः सरदारवल्लभभाईपटेलस्य नेतृत्वे भारतीयनववर्षस्य चैत्रशुक्लप्रतिपदा दिवसे रेवतीनक्षत्रे इन्द्रयोगे विभिन्नराज्यकुलानां (रियासतां) एकत्रीकरणेन वृहद्राजस्थानस्य स्थापना अभवत्। सः अवदत् यत् शुभनक्षत्रं दृष्ट्वा नूतनकार्यस्य आरम्भः करणम् अस्माकं संस्कृतेः परम्परा अस्ति। अतः अस्याः भावनायाः अनुसारेण अस्मिन् वर्षे १९ मार्च (चैत्रशुक्लप्रतिपदा) दिवसे राजस्थानदिवसः समग्रप्रदेशे हर्षोल्लासेन आचरिष्यते।

शर्मा अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिना प्रतिपादितस्य “विकसितभारत-२०४७” दृष्टेः अनुरूपं राज्यसर्कारः “विकसितराजस्थान-२०४७” इति लक्ष्ये कार्यं करोतिः। सर्कारस्य ध्येयम् अस्ति यत् जनकल्याणयोजनानां लाभः समाजस्य अन्तिमपदस्थव्यक्तिपर्यन्तं प्राप्नुयात्। सः आह्वानं कृतवान् यत् सर्वे पात्रजनाः योजनानां लाभं गृह्णन्तु तथा अन्यानपि तत्र प्रेरयन्तु।

मुख्यमन्त्री अवदत् यत् अस्माकं सर्कारेण द्विवर्षीयकार्यकाले ऐतिहासिकाः उपलब्धयः प्राप्ताः। प्रदेशे विद्युत्, जल, उद्योगादिषु क्षेत्रेषु अनेके अभूतपूर्वनिर्णयाः स्वीकृताः। राज्यसर्कारः कृषकाणां, महिलानां, युवानां, श्रमिकाणां च सर्वेषां वर्गाणां सशक्तीकरणाय निरन्तरं कार्यं करोतिः।

सः अवदत् यत् युवानां सशक्तीकरणार्थं सर्कारेण दृढपदानि कृतानि। युवानां कृते युवानीतिः आरब्धा अस्ति। युवभ्यः व्याजमुक्तऋणम् अपि प्रदीयते, येन उद्यमिता प्रवर्धते तथा युवानः रोजगारदातारः अपि भवन्ति। सः युवान् उत्साहयन् अवदत्— “भवन्तः स्वप्नानां उड्डयनाय सज्जाः भवन्तु; राज्यसर्कारः भवन्तां स्वप्नसिद्धये सर्वथा साहाय्यं करिष्यति।”

मुख्यमन्त्री अवदत् यत् राज्यसर्कारः युवभ्यः सरकारीक्षेत्रे चत्वारि लक्षाणि तथा निजीक्षेत्रे षट् लक्षाणि रोजगाराणि प्रदातुं लक्ष्यं धारयति। अद्यपर्यन्तं १ लक्ष २५ सहस्राणि नियुक्तयः प्रदत्ताः सन्ति। अन्ये १ लक्ष ३३ सहस्राणि पदानि भर्तीप्रक्रियायां सन्ति तथा १ लक्षाधिकानां पदानां भर्तीपञ्चाङ्गम् अपि प्रकाशितम्। सः अवदत् यत् पेपरलीक इत्यादिभिः प्रकरणैः युवानां भविष्ये आघातं कर्तारः अधुना कारागारे स्थिताः सन्ति।

अस्मिन् अवसरे मुख्यमन्त्री प्रतिभागिभिः सह धावने सहभागित्वं कृत्वा तेषां उत्साहं वर्धितवान्। अस्मिन् कार्यक्रमे विधायकः गोपालशर्मा, मुख्यसचिवः वी. श्रीनिवासः तथा अन्ये जनप्रतिनिधयः, अधिकारीणः, बहुसंख्यकाः प्रतिभागिनः सामान्यजनाश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार