Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 15 मार्चमासः (हि.स.)।
इलाहाबाद विश्वविद्यालयस्य संस्कृतविभागस्य सहायकाचार्यः डॉ प्रचेतसः दुर्लभानां शिक्षाग्रन्थानां सम्पादनकार्यं करिष्यति। अस्य कार्यस्य कृते भारतीय सामाजिक विज्ञान अनुसंधान परिषदेन अष्टादशलक्षरूप्यकाणां अनुदानराशिः स्वीकृता अस्ति।
एतत् विवरणं इविंग क्रिश्चियन कॉलेजस्य अर्थशास्त्रविभागाध्यक्षः तथा ऑक्टा संस्थायाः पूर्वाध्यक्षः डॉ उमेश प्रताप सिंहः रविवासरे अददात्। तेन उक्तं यत् अस्मिन् वृहद् अनुसंधानपरियोजनायां (मेजर रिसर्च प्रोजेक्ट) विभागस्य डॉ ललित कुमारः, डॉ संत प्रकाश तिवारी तथा दिल्ली विश्वविद्यालयस्य डॉ खुशबू शुक्ला सहायक परियोजना निर्देशकाः सन्ति।
---------------
हिन्दुस्थान समाचार