Enter your Email Address to subscribe to our newsletters

- मध्यप्रदेशे विश्व-उपभोक्ता-अधिकार-दिवसे अद्य प्रदेशव्यापि जागरूकता-कार्यक्रमाः
- मन्त्री राजपूतः कार्यक्रमस्य शुभारम्भं करिष्यति
भोपालनगरम्, १५ मार्चमास: (हि.स.)। मध्यप्रदेशे अद्य रविवासरे विश्व-उपभोक्ता-अधिकार-दिवसावसरे सर्वेषु जनपदेषु जनजागरूकता-कार्यक्रमाः आयोज्यन्ते। प्रदेशस्य खाद्य-नागरिक-आपूर्ति-उपभोक्ता-संरक्षण-मन्त्री गोविन्दसिंह: राजपूत: अपराह्णे १ वादने कुशाभाऊ ठाकरे अन्ताराष ट्रिय-सम्मेलनकेन्द्रम् इत्यत्र विश्व-उपभोक्ता-अधिकार-दिवस-कार्यक्रमस्य शुभारम्भं करिष्यति।
जनसम्पर्क-अधिकारी राजेशपाण्डेय: सूचितवान् यत् अस्मिन् अवसरे खाद्यमन्त्री राजपूतः राज्य-स्तरीय-उपभोक्ता-प्रदर्शिन्याः अपि उद्घाटनं करिष्यति। अस्मिन् कार्यक्रमे विशिष्ट-अतिथयः तथा जनप्रतिनिधयः अपि उपस्थिताः भविष्यन्ति। कार्यक्रमस्य आयोजनं खाद्य-नागरिक-आपूर्ति-उपभोक्ता-संरक्षण-विभागेन क्रियते।
तदनन्तरं प्रदेशस्य सर्वेषु जनपद-मुख्यालयेषु प्रतिवर्षवत् अस्मिन् वर्षेऽपि विश्व-उपभोक्ता-अधिकार-दिवसस्य कार्यक्रमाः आयोज्यन्ते। अस्मिन् कार्यक्रमे उपभोक्तृणां जागरूकतायै विभागीय-अधिकाऱिभिः उपभोक्ता-संरक्षणसम्बद्धा आवश्यकाः सूचनाः प्रदास्यन्ते। सहैव विभिन्न-विभागैः शिविराणि तथा प्रदर्शिन्यः अपि स्थाप्यन्ते।
जागरूक-उपभोक्तृभ्यः तथा नागरिकेभ्यः कार्यक्रमेषु उपस्थाय उपभोक्ता-अधिकारसम्बद्ध-सूचनानान लाभं प्राप्तुम् आग्रहः कृतः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता