Enter your Email Address to subscribe to our newsletters

— केन्द्रीय-मन्त्री ज्योतिरादित्य-सिन्धिया मुख्य-अतिथिरूपेण उपस्थितः भविष्यति
भोपालनगरम्, १५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य अशोकनगर-जनपदे स्थिते ऐतिहासिके चन्देरी-नगरे प्रख्यातस्य संगीतज्ञस्य बैजू-बावरा स्मृत्यर्थम् अद्य रविवासरात् त्रिदिवसीयः ‘बैजू-बावरा-समारोहः’ आयोज्यते। अस्य समारोहस्य शुभारम्भः अद्य सायं ५ वादने केन्द्रीय-सञ्चार-मन्त्रिणः ज्योतिरादित्य-सिन्धिया मुख्य-आतिथ्येन भविष्यति। कार्यक्रमे प्रदेशस्य संस्कृति-मन्त्री धर्मेन्द्र-सिंह-लोधी विशिष्टातिथिरूपेण उपस्थितः भविष्यति।
मध्यप्रदेश-शासनस्य संस्कृति-विभागेन तथा उस्ताद-अलाउद्दीन-खाँ-संगीत-एवं-कला-अकादमी इत्यस्य सहयोगेन जनपद-प्रशासनस्य सहकार्येण च चन्देरी-नगरस्य मेला-प्राङ्गणे अयं त्रिदिवसीयः समारोहः आयोजितः अस्ति, यः १७ मार्चपर्यन्तं प्रवर्तिष्यते। अस्मिन् कार्यक्रमे शास्त्रीय-संगीतस्य, नृत्यस्य तथा लोक-संस्कृतेः उत्कृष्ट-प्रस्तुतयः आयोज्यन्ते, यासां रसास्वादनं सुधीजनाः कर्तुं शक्नुवन्ति।
अकादम्याः निदेशकः प्रकाश-सिंह-ठाकुर: अवदत् यत् प्रख्यात-संगीतज्ञस्य बैजू-बावरां प्रति आदराञ्जलिरूपेण समारोहस्य प्रथमदिने सायं ५ वादनात् शुभारम्भानन्तरं अकादम्याः प्रतिष्ठितः “मध्यप्रदेश-राज्य-रूपंकर-कला-पुरस्कारः” अलंकरण-समारोहः अपि आयोज्यते। अस्मिन् द्वौ पुरस्कारौ मूर्तिकला-विधायै तथा अष्टौ पुरस्काराः चित्रकला-विधायै प्रदास्यन्ते।
अलंकरण-समारोहेन सह रूपंकर-कला-पुरस्काराय आमन्त्रितानां कलाकृतिनाम् मध्ये ८० कलाकृतिनां प्रदर्शिनी अपि आयोजिता भविष्यति। संस्कृति-विभागस्य ललित-कला-महाविद्यालयानां छात्राः छात्र्यश्च त्रिषु दिवसेषु चन्देरी-नगरस्य विविध-स्थलेषु सजीव-चित्रांकनं करिष्यन्ति।
समारोहस्य प्रथमदिने अलंकरण-समारोहानन्तरं पूर्वरङ्गे भोपाल-नगरात् दीपिका-पुरोहिता इत्यस्याः पारम्परिकं बुन्देली-भजन-गायनं भविष्यति। ततः परं सुप्रसिद्ध-भजन-गायकः अनूप-जलोटा सहचरैः सह सूफी-भजन-गायनस्य प्रस्तुति करिष्यति।
द्वितीय-दिने १६ मार्च-दिने सायं ७ वादनात् अफजल-हुसैन-भोपालस्य ध्रुपद-गायनं भविष्यति। ततः परं डॉ. निखिल-बडोदिया-इन्दौरस्य सितार-वादन-सभा आयोज्यते। अनन्तरं संघमित्रा-तायवाडे-भोपालस्याः कथक-समूह-नृत्यस्य प्रस्तुति: भविष्यति। अन्ते बलवन्त-पुराणिक-भोपालस्य काञ्च-वाद्य-वादनं भविष्यति।
अन्तिम-दिने १७ मार्च २०२६-दिने सायं ७ वादनात् उल्हास-तैलंग-भोपालस्य गायन-सभा आरभ्यते। ततः परं फारुख-लतीफ-खान-मुम्बई-इत्यस्य सारङ्गी-वादनं भविष्यति। अनन्तरं शिप्रा-सुल्लेरे-जबलपुरस्याः शास्त्रीय-गायनं तथा अन्तिमतया आरती-श्रीवास्तव-दिल्लीनगरस्या: कथक-समूह-नृत्यस्य प्रस्तुति: आयोजिता भविष्यति।
अकादम्याः निदेशकः प्रकाश-सिंह-ठाकुर अवदत् यत् समारोहस्य बहुविध-कला-उत्सवरूपेण आयोजनस्य उद्देशेन “हुनर”-कार्यशाला-सह-विक्रयस्य १० विपणानि अपि स्थाप्यन्ते, यत्र पारम्परिक-शिल्पकलायाः कलाकाराः स्व-शिल्पानां प्रदर्शनं करिष्यन्ति। सहैव अशोकनगर-जनपदस्य “एक-जनपद-एक-उत्पाद” योजनायाः १० विपणानि तथा पारम्परिक-व्यञ्जन-उत्सवस्य आयोजनम् अपि भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता