मध्यप्रदेशे मुख्यमन्त्री डॉ.यादवः अद्य नेपानगर-नगरे जनजातीय-सम्मेलने सहभागी भविष्यति
— ३६३ कोटि ८२ लक्ष-रूप्यकाणां मूल्यस्य १२७ विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति भोपालनगरम्, १५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य रविवासरे बुरहानपुर-जनपदस्य नेपानगर-नगरे आयोजिते जनजातीय-सम्मेलने सहभागी भविष्
सीएम मोहन यादव (फाइल फोटो)


— ३६३ कोटि ८२ लक्ष-रूप्यकाणां मूल्यस्य १२७ विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति

भोपालनगरम्, १५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य रविवासरे बुरहानपुर-जनपदस्य नेपानगर-नगरे आयोजिते जनजातीय-सम्मेलने सहभागी भविष्यति। कार्यक्रमे अस्मिन् मुख्यमन्त्री डॉ.यादवः ३६३ कोटि ८२ लक्ष-रूप्यकाणां मूल्यस्य १२७ विकास-कार्याणां लोकार्पणं तथा भूमिपूजनं करिष्यति।

जनसम्पर्क-अधिकारिणी आशा-उइके इत्यनया सूचितं यत् नेपानगर-नगरे “जनजातीय-सम्मेलनं तथा विविध-विकास-कार्याणां लोकार्पण-भूमिपूजन-कार्यक्रमः” आयोजितः भविष्यति। अस्मिन् अवसरे धरती-आबा-जनजातीय-ग्राम-उत्कर्ष-अभियानस्य अन्तर्गतं कार्यशाला अपि आयोजिता भविष्यति। जनजातीय-बहुल-नेपानगर-क्षेत्रे जनजातीय-समुदायाय विविधानां जनकल्याणकारी-योजनानां विषये जानकारी प्रदास्यते। सहैव मुख्यमन्त्री डॉ.यादवः जनजातीय-समुदायेन सह संवादं अपि करिष्यति।

अस्मिन् जनजातीय-सम्मेलने कृषि, उद्यानिकी, पशु-चिकित्सा, आजीविका-अभियानम्, वन-विभागस्य “विकास-प्रदर्शिनी” अपि आयोजिता भविष्यति। मुख्यमन्त्री डॉ.यादवः सम्मेलनस्य अवसरे विविध-योजनानां पात्र-हितग्राहिभ्यः हितलाभान् अपि वितरिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता