Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १५ मार्चमासः (हि.स.)। केन्द्रीय-सञ्चार-तथा-पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया अद्य रविवासरे मध्यप्रदेशस्य गुना-जनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः विविधेषु कार्यक्रमेषु सहभागितां करिष्यति।
जनपद-प्रशासनेन प्रकाशितस्य भ्रमण-कार्यक्रमानुसारम् केन्द्रीय-मन्त्री सिन्धिया प्रातः १०:२५ वादने म्याना-स्थितं पंचायत-विभागस्य जनपद-प्रशिक्षण-केन्द्रं निरीक्षिष्यति तथा प्रातः १०:५५ वादने नागरिक-चिकित्सालयस्य अपि निरीक्षणं करिष्यति। ततः परं प्रातः ११:१५ वादनात् म्याना-नगरस्य उच्च-माध्यमिक-विद्यालये आयोजिते जन-समस्या-निवारण-शिविरे नागरिकाणां समस्याः श्रोष्यति तथा तासां समाधानं करिष्यति। शिविरानन्तरं सः अपराह्णे २:०० वादने अशोकनगर-जनपदस्य चन्देरी-नगरं प्रति प्रस्थानं करिष्यति।
केन्द्रीय-मन्त्री सिन्धिया सायं ७:१५ वादने गुना-जनपद-चिकित्सालयस्य निरीक्षणं कृत्वा नवनिर्मितस्य क्रिटिकल-केयर-यूनिट-इत्यस्य उद्घाटनं करिष्यति। सहैव सः गुना-रेलवे-स्थानकस्य तथा सकतपुर-क्षेत्रे अमृत-योजनायाः अन्तर्गतं निर्मीयमाणस्य सीवेज-ट्रीटमेंट-प्लाण्ट-इत्यस्य निरीक्षणं लोकार्पणं च करिष्यति। अस्यां यात्रायां सः विभिन्नेषु कार्यक्रमेषु तथा जनसभासु अपि सहभागितां करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता